निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम् । असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥
Metre: उपजातिः
यया समासादितसाधनेन सुदुश्चरामाचरता तपस्याम् । एते दुरापं समवाप्य वीर्यमुन्मीलितारः कपिकेतनेन ॥
Metre: उपजातिः
महत्त्वयोगाय महामहिम्नामाराधनीं तां नृप देवतानाम् । दातुं प्रदानोचित भूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम् ॥
Metre: उपजातिः
इत्युक्तवन्तं व्रज साधयेति प्रमाणयन्वाक्यमजातशत्रोः । प्रसेदिवांसं तमुपाससाद वसन्निवान्ते विनयेन जिष्णुः ॥
Metre: उपजातिः
निर्याय विद्याथ दिनादिरम्याद्बिम्बादिवार्कस्य मुखान्महर्षेः । पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥
Metre: इन्द्रवज्रा
योगं च तं योग्यतमाय तस्मै तपःप्रभावाद्विततार सद्यः । येनास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥
Metre: उपजातिः
आकारमाशंसितभूरिलाभं दधानमन्तःकरणानुरूपम् । नियोजयिष्यन्विजयोदये तं तपःसमाधौ मुनिरित्युवाच ॥
Metre: उपजातिः
अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् । समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥
Metre: उपेन्द्रवज्रा
करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥
Metre: उपजातिः
इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे । तं राजराजानुचरोऽस्य साक्षात्प्रदेशमादेशमिवाधितस्थौ ॥
Metre: उपजातिः