किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 11 to 20 of 60 verses
Verse 11
चिचीषतां जन्मवतामलघ्वीं यशोवतंसामुभयत्र भूतिम् । अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम् ॥
Metre: उपजातिः

Verse 12
तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः । वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥
Metre: उपजातिः

Verse 13
सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः । यस्त्यक्तवान्वः स वृथा बलाद्वा मोहं विधत्ते विषयाभिलाषः ॥
Metre: उपजातिः

Verse 14
जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः । असाद्युयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥
Metre: उपजातिः

Verse 15
पथश्च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय । त्वया विपत्स्वप्यविपत्ति रम्यमाविष्कृतं प्रेम परं गुणेषु ॥
Metre: उपजातिः

Verse 16
विधाय विध्वंसनमात्मनीनं शमैकवृत्तेर्भवतश्छलेन । प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥
Metre: उपेन्द्रवज्रा

Verse 17
लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः । अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥
Metre: उपजातिः

Verse 18
त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः । वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥
Metre: उपजातिः

Verse 19
यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि । धुन्वन्धनुः कस्य रणे न कुर्यान्मनो भयैकप्रवणं स भीष्मः ॥
Metre: उपजातिः

Verse 20
सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः । परिस्फुरल्लोलशिखाग्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम् ॥
Metre: उपेन्द्रवज्रा

Showing 11 to 20 of 60 verses