चतुर्विंशतिरेतेषां मयोक्ता कर्मणामपि॥ १९१॥
जातिक्रियादियोगेन यस्य दूतस्य यो विधिः।
युज्यते तत्र मेधावी तमेव विनियोजयेत्॥ १९२॥
बुद्ध्वा बुधश्चतुरशीतिमपीह दूतान् कर्माणि विंशतिमशीतियुतां चतुर्भिः।
यो यत्र सिद्ध्यति तमेव हि तत्र दूत— सम्प्रेषणादिषु समीक्ष्य समादधीत॥ १९३॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे अभियोगविधिप्रकाशो नाम ॥ अष्टाविंशः प्रकाशः॥ २८॥
यत्कामतन्त्रमनु किञ्चन नाट्यशास्त्रमादिक्षदेतदखिलं खलु दूतकर्म।
धारेश्वरो नृपतिरेष समुद्दिदेश ग्रन्थेऽत्र काव्यनिगमागमसार्वभौमः॥
१. चतुर्विंशो दूतकर्मयोगाश्रयो नाम प्रकारोऽग्रिमे प्रकाशे दृश्यः।