१.४.२४ सर्वसंमतो यथा—(गास. ३.३४)
जस्स जहिं चिअ पढमं तिस्सा अंगम्मि णिवडिआ दिट्ठी।
तस्स तहिं चेअ ठिआ सव्वंगं केण वि ण दिट्ठ॥ १६७॥
(यस्य यत्रैव प्रथमं तस्या अङ्गे निपतिता दृष्टिः।
तस्य तेनैव स्थिता सर्वाङ्गं केनापि न दृष्टा॥)
अथ प्रकाशानुरागः। सोऽपि चतु्र्विंशतिप्रकारः—
१. स्वकीयाविषयः ९. स्वाधीनभर्तृकाविषयः १७. ज्येष्ठा(विषयः)
२. स्वयंवराविषयः १०. प्रोषितपतिकाविषयः १८. कनिष्ठा(विषयः)
३. कन्याविषयः ११. विरहोत्कण्ठिताविषयः १९. सुभगाविषयः