अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति॥ २१६॥
१.७.२ स उपभेदतो द्वेधा, एकविषयोऽनेकविषयश्च। तत्रैकविषयो यथा—(रघु. १५.६१)
श्र्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
अनन्यजानेर्यस्यासीत् सैव जाया हिरण्मयी॥ २१७॥
१.७.३. अनेकविषयो यथा—(गारको. ६९७)
असईण णमो ताणं दप्पणसरिसेसु जाण हिअएसु।
जो च्चेअ ठाइ पुरओ सहसा सो च्चेअ संकमइ॥ २१८॥
(असतीनां नमस्तासां दर्पणसदृशेषु य़ासां हृदयेषु।
य एव तिष्ठति पुरतः सहसा स एव सङ्क्रामति॥
१.७. ४. तारुण्योद्रेकादुपचितेषु उपचीयमानेषु शरीरधातुषु दर्पातिरेकाद् य उपजायते, स यौवनजः। यथा—(गास. ९५४ वे.)