मनसिशयमहास्त्रं शास्त्रसर्वस्वमेतन्निरुपमरमणीयं चेष्टितं नायकानाम्।
कथितमथ यथावत् कामश्चङ्गारसारे पुनरपि तदवस्थावस्थितं वर्णयामः॥ ११९॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे मोक्षश्रृङ्गारप्रकाशनो नाम
मोक्षस्य सर्वविधलक्षणलेखयाढ्यमेकं सविंशमिममाढ्यतरं प्रकाशम्।
एकोनविंशयुतपद्यशतं प्रकाश्य साहित्यशास्त्रमसमं ह्यतनोन्नृपोऽसौ॥
अभिनव इति संज्ञया समृद्धः क इव बभूव यथार्थया स्वकाले।
इति वदत विविच्य विद्वरेण्या नृपतिरसावथवा स कोऽपि गुप्तः॥