पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 441 to 450 of 451 verses
Verse 192
केवलं व्यसनस्योक्तं भेषजं नय-पण्डितैः । तस्योच्छेद-समारम्भो विषाद-परिवर्जनं ॥
Metre: अनुष्टुप्

अन्यच्च—

Verse 193
अतीत-लाभस्य सुरक्षणार्थं भविष्य-लाभस्य च सङ्गमार्थम् । आपत्-प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥
Metre: उपजातिः

तच्छ्रुत्वा वायस आह—भो यद्येवं तत्क्रियतां मद्-वचः । एष चित्राङ्गोऽस्य मार्गे गत्वा किंचित्पल्वलमासाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहमप्यस्य शिरसि समारुह्य मन्दैश्चञ्चु-प्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धकोऽमुं मृतं मत्वा मम चञ्चु-प्रहार-प्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया दर्भ-मय-बन्धन-वेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति ।

चित्राङ्गः प्राह-भो भद्रोऽयं दृष्टो मन्त्रस्त्वया । नूनं मन्थरको मुक्तो मन्तव्यः । उक्तं च—

Verse 194
सिद्धिं वा यदि वासिद्धिं चित्तोत्साहो निवेदयेत् । प्रथमं सर्व-जन्तूनां प्राज्ञो वेत्ति न चेतरः ॥
Metre: अनुष्टुप्

तत्तदेवं क्रियताम् । तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्न-पल्वल-तीरस्थं चित्राङ्गं वायस-सनाथमद्राक्षीत् । तं दृष्ट्वा हर्षित-मना व्यचिन्तयत् । नूनं पाश-वेदनया वराकोऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथमप्येतद्वनान्तरं प्रविष्टो यावन्मृतः । तद्वश्योऽयं मे कच्छपः सुयन्त्रितत्वात् । तदेनमपि तावद्गृह्णामीत्यवर्धाय कच्छपं भू-तले प्रक्षिप्य मृगमुपाद्रवत् ।

अत्रान्तरे हिरण्यकेन वज्रोपम-दंष्ट्रा-प्रहारेण तद्दर्भ-वेष्टनं तत्-क्षणात्खण्डशः कृतं । मन्थरकोऽपि तृण-मध्यान्निष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गोऽप्यप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषाद-परो निवृत्तो लुब्धको यावत्पश्यति तावत्कच्छपोऽपि गतः । ततश्च तत्रोपविश्येमं श्लोकमपठत्—

Verse 195
प्राप्तो बन्धनमप्ययं गुरु-मृगस्तावत्त्वया मे हृतः सम्प्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः । क्षुत्-क्षामोऽत्र वने भ्रमामि शिशुकैस्त्यक्तः समं भार्यया यच्चान्यन्न कृतं कृतान्त कुरुते तच्चापि सह्यं मया ॥
Metre: शार्दूलविक्रीडितम्

एवं बहु-विधं विलप्य स्व-गृहं गतः । अथ तस्मिन्दूरी-भूते सर्वेऽपि ते काक-कूर्म-मृगाखवः परमानन्द-भाजो मिलित्वा परस्परमालिङ्ग्य पुनर्जातानिवात्मनो मन्यमानस्तदेव सरः प्राप्य महा-सुखेन सुभाषित-गोष्ठी-विनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र-सङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च—

Showing 441 to 450 of 451 verses