पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 441 to 450 of 1051 verses
रथकार आह—मित्र, पश्य मे बुद्धि-बलम् ।

एवमभिधाय तत्-क्षणात्कील-सञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शङ्ख-चक्र-गदा-पद्मान्वितं स-किरीट-कौस्तुभमघटयन् । ततस्तस्मिन्कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच-वयस्य,अनेन विष्णु-रूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्त-भूमिक-प्रासाद-प्रान्त-गतां मुग्ध-स्वभावां त्वां वासुदेवं मन्यमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज ।

कौलिकोऽपि तदाकर्ण्य तथा-रूपस्तत्र गत्वा तामाह-राज-पुत्रि, सुप्ता किं वा जागर्षि ?अहं तव कृते समुद्रात्सानुरागो लक्ष्मीं विहायैवागतः । तत्क्रियतां मया सह समागमः इति ।

सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य स-विस्मया शयनादुत्थाय प्रोवाच-भगवन् !अहं मानुषी कीटिकाशुचिः । भगवांस्त्रैलोक्य-पावनो वन्दनीयश्च । तत्कथमेतद्युज्यते ।

कौलिक आह—सुभगे, सत्यमभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत् । सा त्वमत्रावतीर्णा । तेनाहमत्रायातः ।

इत्युक्ता सा प्राह-भगवन्, यद्येवं तन्मे तातं प्रार्थय । सोऽप्यविकल्पं मां तुभ्यं प्रयच्छति ।

कौलिक आह—सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि । किं पुनरालाप-करणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच्छापं दत्त्वा सान्वयं ते पितरं भस्मसात्करिष्यामि इति । एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायामानयत् । ततश्च रात्रि-शेषं यावद्वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहमलक्षितो जगाम ।

एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित्कञ्चुकिनस्तस्या अधरोष्ठ-प्रवाल-खण्डनं दृष्ट्वा मिथः प्रोचुः-अहो ! पश्यतास्या राज-कन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत्कथमयं सुरक्षितेऽप्यस्मिन्गृह एवंविधो व्यवहारः । तद्राज्ञे निवेदयामः ।

एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः-देव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तः-पुरे कश्चित्प्रविशति । तद्देवः प्रमाणमिति । तच्छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिन्तयत्—

Verse 222
पुत्रीति जाता महतीह चिन्ता कस्मै प्रदेयेति महान्वितर्कः । दत्त्वा सुखं प्राप्स्यति वा न वेति कन्या-पितृत्वं खलु नाम कष्टम् ॥
Metre: इन्द्रवज्रा

Showing 441 to 450 of 1051 verses