रथकार आह—मित्र, पश्य मे बुद्धि-बलम् ।
एवमभिधाय तत्-क्षणात्कील-सञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शङ्ख-चक्र-गदा-पद्मान्वितं स-किरीट-कौस्तुभमघटयन् । ततस्तस्मिन्कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच-वयस्य,अनेन विष्णु-रूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्त-भूमिक-प्रासाद-प्रान्त-गतां मुग्ध-स्वभावां त्वां वासुदेवं मन्यमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज ।
कौलिकोऽपि तदाकर्ण्य तथा-रूपस्तत्र गत्वा तामाह-राज-पुत्रि, सुप्ता किं वा जागर्षि ?अहं तव कृते समुद्रात्सानुरागो लक्ष्मीं विहायैवागतः । तत्क्रियतां मया सह समागमः इति ।
सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य स-विस्मया शयनादुत्थाय प्रोवाच-भगवन् !अहं मानुषी कीटिकाशुचिः । भगवांस्त्रैलोक्य-पावनो वन्दनीयश्च । तत्कथमेतद्युज्यते ।
कौलिक आह—सुभगे, सत्यमभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत् । सा त्वमत्रावतीर्णा । तेनाहमत्रायातः ।
इत्युक्ता सा प्राह-भगवन्, यद्येवं तन्मे तातं प्रार्थय । सोऽप्यविकल्पं मां तुभ्यं प्रयच्छति ।
कौलिक आह—सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि । किं पुनरालाप-करणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच्छापं दत्त्वा सान्वयं ते पितरं भस्मसात्करिष्यामि इति । एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायामानयत् । ततश्च रात्रि-शेषं यावद्वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहमलक्षितो जगाम ।
एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित्कञ्चुकिनस्तस्या अधरोष्ठ-प्रवाल-खण्डनं दृष्ट्वा मिथः प्रोचुः-अहो ! पश्यतास्या राज-कन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत्कथमयं सुरक्षितेऽप्यस्मिन्गृह एवंविधो व्यवहारः । तद्राज्ञे निवेदयामः ।
एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः-देव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तः-पुरे कश्चित्प्रविशति । तद्देवः प्रमाणमिति । तच्छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिन्तयत्—
पुत्रीति जाता महतीह चिन्ता कस्मै प्रदेयेति महान्वितर्कः । दत्त्वा सुखं प्राप्स्यति वा न वेति कन्या-पितृत्वं खलु नाम कष्टम् ॥
Metre: इन्द्रवज्रा