पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 431 to 440 of 1051 verses
Verse 219
औषधार्थ-सुमन्त्राणां बुद्धेश्चैव महात्मनाम् । असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम् ॥
Metre: अनुष्टुप्

तदेषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि ।

कौलिक आह—वयस्य,एतेषामन्येषामपि सहस्राणामुपायानामसाध्यं तन्मे दुःखम् । तस्मान्मम मरणे मा काल-क्षेपं कुरु ।

रथकार आह—भो मित्र ! यद्यप्यसाध्यं तथापि निवेदय येनाहमपि तदसाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणमपि त्वद्-वियोगं सहिष्ये । एष मे निश्चयः ।

कौलिक आह—वयस्य, यासौ राज-कन्या करेणुमारूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकर-ध्वजेन ममेयमवस्था विहिता । तन्न शक्नोमि तद्-वेदनां सोढुम् । तथा चोक्तम्—

Verse 220
मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे तस्याः पयोधर-युगे रति-खेद-खिन्नः । वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती स्वप्स्ये कदा क्षणमवाप्य तदीय-सङ्गम् ॥
Metre: वसन्ततिलका

तथा च—

Verse 221
रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् । कुर्वत्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु खेदं यन्मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन्न युक्तम् ॥
Metre: स्रग्धरा

रथकारोऽप्येवं स-कामं तद्-वचनमाकर्ण्य स-स्मितमिदमाह-वयस्य ! यद्येवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तदद्यैव तया सह समागमः क्रियतामिति ।

कौलिक आह—वयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत्किं मामसत्य-वचनेन विडम्बयसि ?

Showing 431 to 440 of 1051 verses