औषधार्थ-सुमन्त्राणां बुद्धेश्चैव महात्मनाम् । असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम् ॥
Metre: अनुष्टुप्
तदेषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि ।
कौलिक आह—वयस्य,एतेषामन्येषामपि सहस्राणामुपायानामसाध्यं तन्मे दुःखम् । तस्मान्मम मरणे मा काल-क्षेपं कुरु ।
रथकार आह—भो मित्र ! यद्यप्यसाध्यं तथापि निवेदय येनाहमपि तदसाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणमपि त्वद्-वियोगं सहिष्ये । एष मे निश्चयः ।
कौलिक आह—वयस्य, यासौ राज-कन्या करेणुमारूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकर-ध्वजेन ममेयमवस्था विहिता । तन्न शक्नोमि तद्-वेदनां सोढुम् । तथा चोक्तम्—
मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे तस्याः पयोधर-युगे रति-खेद-खिन्नः । वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती स्वप्स्ये कदा क्षणमवाप्य तदीय-सङ्गम् ॥
Metre: वसन्ततिलका
रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् । कुर्वत्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु खेदं यन्मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन्न युक्तम् ॥
Metre: स्रग्धरा
रथकारोऽप्येवं स-कामं तद्-वचनमाकर्ण्य स-स्मितमिदमाह-वयस्य ! यद्येवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तदद्यैव तया सह समागमः क्रियतामिति ।
कौलिक आह—वयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत्किं मामसत्य-वचनेन विडम्बयसि ?