पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 431 to 440 of 451 verses
यदि तावत्कृतान्तेन मे धन-नाशो विहितस्तन्-मार्ग-श्रान्तस्य मे विश्राम-भूतं मित्रं कस्मादपहृतं । अपरमपि मित्रं परं मन्थरक-समं न स्यात् । उक्तं च—

Verse 187
असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा । आपद्-विमोक्षणं चैव मित्रस्यैतत्फल-त्रयम् ॥
Metre: अनुष्टुप्

तदस्य पश्चान्नान्यः सुहृन्मे । तत्किं ममोपर्यनवरतं व्यसन-शरैर्वर्षति हन्त विधिः । यत आदौ तावद्वित्त-नाशस्ततः परिवार-भ्रंशस्ततो देश-त्यागस्ततो मित्र-वियोग इति । अथवा स्वरूपमेतत्सर्वेषामेव जन्तूनां जीवित-धर्मस्य । उक्तं च—

Verse 188
कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥
Metre: अनुष्टुप्

तथा च—

Verse 189
क्षते प्रहारा निपतन्त्यभीक्ष्णं धन-क्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति च्छिद्रेष्वनर्था बहुली-भवन्ति ॥
Metre: उपजातिः

अहो साधूक्तं केनापि ।

Verse 190
प्राप्ते भये परित्राणं प्रीति-विश्रम्भ-भाजनं । केन रत्नमिदं सृष्टं मित्रमित्यक्षर-द्वयं ॥
Metre: अनुष्टुप्

अत्रान्तरे आक्रन्द-परौ चित्राङ्ग-लघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आह—अहो किं वृथा-प्रलपितेन । तद्यावदेष मन्थरको दृष्टि-गोचरान्न नीयते तावदस्य मोक्षोपायश्चिन्त्यतामिति । उक्तं च—

Verse 191
व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति ॥
Metre: अनुष्टुप्