यदि तावत्कृतान्तेन मे धन-नाशो विहितस्तन्-मार्ग-श्रान्तस्य मे विश्राम-भूतं मित्रं कस्मादपहृतं । अपरमपि मित्रं परं मन्थरक-समं न स्यात् । उक्तं च—
असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा । आपद्-विमोक्षणं चैव मित्रस्यैतत्फल-त्रयम् ॥
Metre: अनुष्टुप्
तदस्य पश्चान्नान्यः सुहृन्मे । तत्किं ममोपर्यनवरतं व्यसन-शरैर्वर्षति हन्त विधिः । यत आदौ तावद्वित्त-नाशस्ततः परिवार-भ्रंशस्ततो देश-त्यागस्ततो मित्र-वियोग इति । अथवा स्वरूपमेतत्सर्वेषामेव जन्तूनां जीवित-धर्मस्य । उक्तं च—
कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥
Metre: अनुष्टुप्
क्षते प्रहारा निपतन्त्यभीक्ष्णं धन-क्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति च्छिद्रेष्वनर्था बहुली-भवन्ति ॥
Metre: उपजातिः
प्राप्ते भये परित्राणं प्रीति-विश्रम्भ-भाजनं । केन रत्नमिदं सृष्टं मित्रमित्यक्षर-द्वयं ॥
Metre: अनुष्टुप्
अत्रान्तरे आक्रन्द-परौ चित्राङ्ग-लघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आह—अहो किं वृथा-प्रलपितेन । तद्यावदेष मन्थरको दृष्टि-गोचरान्न नीयते तावदस्य मोक्षोपायश्चिन्त्यतामिति । उक्तं च—
व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति ॥
Metre: अनुष्टुप्