भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1841 to 1849 of 1849 verses
१. अङ्गारको मङ्गलः। वारो दिवसः। मङ्गलवार इत्यर्थः। कप्रत्ययोऽप्राशस्त्याय। तथा च माघो 'भौमदिवसमभिमन्वतेऽथवा भृशमप्रशस्तमपि मङ्गलं जनाः'।

स्वकीयसामान्यपुनर्भुवां च भिदां प्रपञ्चः स इवावबद्धः।

परस्परं प्रोषितभर्तृकादिभेदैर्विभिन्नोऽत्र निबन्धनीयः॥ ४३८॥

इति प्रपञ्चः कथितोऽङ्गनानां क्रमात् स्वकीयादिविभेदभिन्नः।

चतुष्प्रकारं तममुं निबन्धन् कविश्चतुर्वर्गफलं लभेत॥ ४३९॥

तदेतत् सर्वस्वं भुवनजयिनः पुष्पधनुषो मनुष्याणामेकं तदिदमसमं जीवितफलम् ।

इदं तत् सौख्यानां कुलभवनमाद्यं त्रिभुवने यदेतत् तारुण्योपहितमहिमानो मृगदृशः॥ ४४०॥

इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे रत्यालम्बनविभावप्रकाशनो नाम । पञ्चदशः प्रकाशः॥ १५॥

प्राकृतबहलः सोऽयं प्रकाश आस्ते मनीषिणां निकषः। प्राकृतमपि खलु विविधस्वरूपमत्यन्तचिररूढम्॥

Showing 1841 to 1849 of 1849 verses