(भीमिलिते! ग्रीष्मं गमयति कथं कथमपि कथं/विरहशिखितापितापि पथिकवधूः।
अविरतप्रदीप्तनि/अविरलपतन्निर्भरबाष्पजलोल्लापशीलेन ॥)
अस्मिन् वर्षमहे न वर्तत इदं यत् कामदेवोत्सवे स्थेयं पुत्रि! निरस्तया/निरन्नया, तदधुना किञ्चिन्मुखे दीयताम्।
इत्युक्ते जरतीजनेन सुतरामाविष्कृत्कण्ठया तन्वङ्गया परिकल्पितं कवलनं धौतञ्च धाराश्रुभिः॥ ४३६॥
८. स्वाधीनभर्तृका यथा—(गास. ३. ६१)
घरिणि—घणत्थण—पेल्लणसुहेल्लिपडिअस्स होंतपहिअस्स।
अवसउणंगारअवारविट्ठिदिअहा सुहाअं/वेंति॥ ४३७॥
(गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाङ्गारकवारविष्टिदिवसाः१ सुखापयन्ति॥)