थणवरजोव्वण्णुम्महणा गव्विरी/उम्मइअ भमइ तुज्झ रे! जाआ।
तेण तुमं कामिज्जसि रोसेणं ण मह असरेओ/णुराअओ॥ ३८२॥
{स्तनभरयौवनोन्मत्त—गर्विणी भ्रमति तव रे! जाया।
तेन त्वं कामयसे रोषेण न ममावसरः/ममानुरागतः॥}
कनिष्ठा अधीरा यथा—(गास. ४.७९)
रुढ्ढतीअ/भंडंतीए तणाइं सोउं दिण्णाइं जाइं पहिअस्स।
ताइं च्चेअ पहाए अज्जा आआड्ढइ कुअंती/रुअंती॥ ३८३॥
(रुष्यन्त्या तृणानि स्वपितुं दत्तानि यानि पथिकस्य।
तान्येव प्रभाते आर्या आकर्षति कुप्यन्ती/रुदती॥)