कनिष्ठा यथा—(गास. ८६५ वे.)
एमेअ मंदपुण्णा अप्पत्तमणोरहा विवज्जिस्सं।
जणवाओ वि ण जाओ तेण समं हलिअउत्तेण॥ ३६३॥
(एवमेव मन्दपुण्याप्राप्तमनोरथा विपत्स्ये।
जनवादोऽपि न जातस्तेन समं हालिकपुत्रेण॥)
कनिष्ठा धीरा यथा—(गास. ३.३१)
तुज्झ अ सोहग्गगुणं अमहिलसरिसं अ साहसं मज्झ।
जाइण गोलाऊरो वासारत्तोद्धरत्तो अ॥ ३६४॥
(तव च सौभाग्यगुणममहिलासदृशं च साहसं मम।
जानाति गोदापूरो वर्षारात्रोऽर्धरात्रश्च॥)