इह हीवादिभिः शब्दैस्सादृश्यादिः प्रतीयते।
अर्थोऽस्मात् सूरयः प्राहुरुभयालङ्कृतीरिमाः॥ ४७५॥
अलङ्क्रिया यास्त्विह शब्दसंश्रयास्ततोऽर्थभूषाभ्यधिकं प्रकृष्यते।
ततोऽभिरूपामुभयोरलङ्कृतिं वदन्ति, संसृष्टिरतोऽपि शोभते॥ ४७६॥
इति महाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे उभयालङ्कारप्रकाशो नाम
भग्नो मम्मटभट्टकोऽत्र महति श्रीभोजराजोद्गते—ऽलङ्कारे त्रिविधोत्तमप्रसरणे दिव्यैः प्रबन्धाकरैः।
ध्वन्यध्वन्यतया प्रथां गतवतामानन्दगुप्तप्रभृ— त्यार्याणामपि भाषितान्यहह नो पर्याप्तिमाबिभ्रति॥
रेवाप्रसादोऽस्म्यहमुच्चभाग्यो यस्यासकौ वै सुलभोऽस्ति राशिः।
विधिप्रसादादथ यस्य लभ्योऽवकाशकालेऽनवकाशकोऽपि॥