भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 81 to 90 of 32222 verses
कुचविष्कम्भमुत्तभ्नन् निस्तुभ्नातीव ते स्मरः ॥ २१ ॥२

पतयालूनि चेष्टासु मनांसि गृहयालवः।

यूनामेकेन रूपेण योषितो दाह्यसातयः ॥ २२ ॥३

४. सनाद्यन्ताः प्रत्ययधातवः। यथा—

मीमांससे न शास्त्रार्थान् कृतार्थयसि नार्थिनः।

गोपायसि न सन्त्रस्तान् किमुद्धतमटाट्यसे ॥ २३ ॥

सूर्यीयति सुधारश्मिं नरकीयति नन्दने।

अकामं कामयाना त्वां सा जीवन्ती मृतायते ॥ २४ ॥

कपोलौ लोहितायेते बाष्पायेते विलोचने।

प्रियप्रणामकाम्यन्ती कृशाङ्गि! कलहायसे ॥ २५ ॥

Showing 81 to 90 of 32222 verses