धातवः षोढा १. परिपठिता, २. अपरिपठिताः, ३. परिपठिताऽपरिपठिताः, ४. प्रत्ययधातवः, ५. नामधातवः, ६. प्रत्ययनामधातवश्चेति। तेषु—
१. परिपठिता भूवादयः। यथा—
भूयात् तेषां कुले जन्म जा/?/न्तां तेषु सम्पदः।
येषां स्वमिति मन्वानाः स्वीकुर्वन्ति स्वमर्थिनः ॥ १४ ॥
कविः सृजति काव्यानि हृद्यादधति सज्जनाः।
सूते मुक्ताः पयोराशिर्वहन्ति तरुणीस्तनाः ॥ १५ ॥
न रुणत्सीन्द्रियग्रामं न शृणोषि गुरोर्वचः।
नो वर्णयसि मित्राणि कथं गृहणास्यरिश्रियः ॥ १६ ॥
२. अपरिपठिता आन्दोलयत्यादयः। यथा—
नीपानान्दोलयन्नेष प्रेङ्खोलयति मे मनः।