पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Disable Parallel


Showing 81 to 90 of 2815 verses
Verse 38
विद्यावतां महेच्छानां शिल्प-विक्रम-शालिनाम् । सेवा-वृत्ति-विदां चैव नाश्रयः पार्थिवं विना ॥
Metre: अनुष्टुप्

Verse 39
ये जात्य्-आदि-महोत्साहान्नरेन्द्रान्नोपयान्ति च । तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥
Metre: अनुष्टुप्

Verse 40
ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः । प्रमादालस्य-जाड्यानि ख्यापितानि निजानि तैः ॥
Metre: अनुष्टुप्

Verse 41
सर्पान्व्याघ्रान्गजान्सिंहान्दृष्ट्वोपायैर्वशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥
Metre: अनुष्टुप्

Verse 42
राजानमेव संश्रित्य विद्वान्याति परां गतिम् । विना मलयमन्यत्र चन्दनं न प्ररोहति ॥
Metre: अनुष्टुप्

Verse 43
धवलान्यातपत्राणि वाजिनश्च मनोरमाः । सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥
Metre: अनुष्टुप्

करटक आह—अथ भवान्किं कर्तुमनाः ?

सोऽब्रवीत्-अद्यास्मत्-स्वामी पिङ्गलको भीतो भीत-परिवारश्च वर्तते । तदैनं गत्वा भय-कारणं विज्ञाय सन्धि-विग्रह-यान-आसन-संश्रय-द्वैधी-भावानामेकतमेन संविधास्ये ।

करटक आह— कथं वेत्ति भवान्यद्भयाविष्टोऽयं स्वामी ?

सोऽब्रवीत्- ज्ञेयं किमत्र ? यत उक्तं च—

Showing 81 to 90 of 2815 verses