शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Disable Parallel


Showing 61 to 70 of 324 verses
Verse 61
मृग-मीन-सज्जनानां तृण-जल-सन्तोष-विहित-वृत्तीनाम् । लुब्धक-धीवर-पिशुना निष्कारण-वैरिणो जगति ॥
Metre: आर्या

Verse 62
वाञ्छा सज्जन-सङ्गमे पर-गुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्व-योषिति रतिर्लोकापवादाद्भयम् । भक्तिः शूलिनि शक्तिरात्म-दमने संसर्ग-मुक्तिः खले येष्वेते निवसन्ति निर्मल-गुणास्तेभ्यो नरेभ्यो नमः ॥
Metre: शार्दूलविक्रीडितम्

Verse 63
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्य-पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृति-सिद्धमिदं हि महात्मनाम् ॥
Metre: द्रुतविलम्बितम्

Verse 64
प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रम-विधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।अनुत्सेको लक्ष्म्यामनभिभव-गन्धाः पर-कथाः सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ॥
Metre: शिखरिणी

Verse 65
करे श्लाघ्यस्त्यागः शिरसि गुरु-पाद-प्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् । हृदि स्वच्छा वृत्तिः श्रुतिमधिगतं च श्रवणयोर्विनाप्यैश्वर्येण प्रकृति-महतां मण्डनमिदम् ॥
Metre: शिखरिणी

Verse 66
सम्पत्सु महतां चित्तं भवत्युत्पल-कोमलम् ।आपत्सु च महाशैलशिला- सङ्घात-कर्कशम् ॥
Metre: अनुष्टुप्

Verse 67
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनी-पत्र-स्थितं राजते । स्वात्यां सागर-शुक्ति-मध्य-पतितं तन्-मौक्तिकं जायते प्रायेणाधम-मध्यमोत्तम-गुणः संसर्गतो जायते ॥
Metre: शार्दूलविक्रीडितम्

Verse 68
प्रीणाति यः सुचरितैः पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च सम-क्रियं यदेतत्त्रयं जगति पुण्य-कृतो लभन्ते ॥
Metre: वसन्ततिलका

Verse 69
एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा ।एको वासः पत्तने वा वने वा ह्येका भार्या सुन्दरी वा दरी वा ॥
Metre: शालिनी

Verse 70
नम्रत्वेनोन्नमन्तः पर-गुण-कथनैः स्वान्गुणान्ख्यापयन्तः स्वार्थान्सम्पादयन्तो वितत-पृथुतरारम्भ-यत्नाः परार्थे । क्षान्त्यैवाक्षेप-रुक्षाक्षर-मुखर-मुखान्दुर्जनान्दूषयन्तः सन्तः साश्चर्य-चर्या जगति बहु-मताः कस्य नाभ्यर्चनीयाः ॥
Metre: स्रग्धरा

Showing 61 to 70 of 324 verses