कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 41 to 50 of 613 verses
Verse 41
शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः । पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): शिरीषेति ॥ तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्यं मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः । यौ बाहू पराजितेनापि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जूकृतौ । कण्ठालिङ्गनं प्रापितावित्यर्थः ।थ तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारोपितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयागात्परिणामालंकारः
अन्वयः: यौ (बाहू) पराजितेन अपि मकरध्वजेन हरस्य कण्ठपाशौ कृतौ, (अतः) तदीयौ बाहू शिरीपुष्पाऽधिकसौकुमार्यौ इति मे वितर्कः ।

Verse 42
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): कण्ठस्येति ॥ स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । `वर्तुलं निस्तलं बृत्तं बन्धुरं तून्नतानतम्` । `कलापो भूषणे बर्हे तूणीरे संहतावपि` इति चामरः । अन्योन्यशोभाजननाद् भूषणभूष्यभावोऽलंकारालंकार्यभावः साधारणः समानो बभूव । उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवतुरित्यर्थः । अत्र कण्ठमुक्ताकलापयोः शोभक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालंकारः । तदुक्तम्- `परस्परं क्रियाजननमन्योन्यम्`इति
अन्वयः: स्तनबन्धुरस्य तस्याः कण्ठस्य निस्तलस्य (तस्याः) मुक्ताकलापस्य च अन्योन्यशोभाजननात् भूषणभूष्यभावः साधारणो बभूव ।

Verse 43
चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): चन्द्रमिति ॥ लोला चपला । परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्रात्पा सती पद्मगुणान्सौगन्ध्यादीन्न भुङ्क्ते नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । `अभिख्या नामशोभयोः` इत्यमरः (अ.को.3|3|164) । अमृतवदानन्दिनीं न भुङ्क्ते । उमामुखं प्रतिपद्य तु व्दे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिमानन्दमवाप । तत्रोभयगुणसंभवादिति भावः । अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमेयस्योमामुखस्याधिकगुणवत्त्वोक्त्या व्यतिरेकालंकारः । तदुक्तम्- `भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः` इति
अन्वयः: लोला लक्ष्मीः चन्द्रं गता (सती) पद्मगुणान् न भुङ्त्ते, पद्माश्रिता (सती) चान्द्रमसीम् अभिख्यां न भुङ्क्ते, उमामुखं तु प्रतिपद्य द्विसंश्रयां प्रीतिम् अवाप ।

Verse 44
पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पुष्पमिति ॥ पुष्पं पुणडरीकादिकं प्रवाले बालपल्लव उपहितं निहितं स्याद्यदि । `प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे` इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले वा विद्रुमे तिष्ठतीति स्फुटविद्रुमस्थं स्यद्यदि ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । अत्र `माषाणामश्नीयात्` इति वत्सम्बन्धमात्रविवक्षया षष्ठी । अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबन्धोक्त्यातिशयोक्तिः । `सा च संभावना` इत्यलंकारसर्वस्वकारः । विशेषस्तु पुष्पमुक्ताफलयोरुपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालंकारः । तदुक्तम्-- `उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः` इति लक्षणात् । स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति
अन्वयः: पुष्पं प्रवालोपहितं स्यात् यदि, वा मुक्ताफलं स्फुटविद्रुमस्थ स्यात् यदि, ततः विशदस्य ताम्रौष्ठपर्यस्तरुचः तस्याः स्मितस्य अनुकुर्यात् ।

Verse 45
स्वरेण तस्याममृतस्रुतेव प्रजल्पितायामभिजातवाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स्वरेणेति । अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याममृतस्त्रुतामृतस्त्राविणेव । क्विप् । स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्त्तरि क्तः । अन्यैः काकादिभिः पुष्टान्यपुष्टा कोकिलापि । मुख्यया वृत्या जातिवचनत्वभावान्ङीबभावः । ताड्यमाना वाद्यमाना विषमबद्धा तन्त्रीर्वितन्त्रीरिव अवितॄस्तृतन्त्रिभ्यः- ईः ` इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न `हल्ङ्याब्भ्यः-` इति सुलोपः । तदुक्तम्- अवोलक्ष्मीतरीतन्त्रीधीह्रीश्रीणामुणादिषु । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन ॥ एते ङीबन्ता न भवन्तीत्यर्थः । श्रोतुर्जनस्य प्रतिकूलशब्दाः कर्णकठोरनादा भवन्तीति शेषः
अन्वयः: अभिजातवाचि तस्याम् अमृतस्त्रुता इव स्वरेण प्रजल्पितायां सत्याम् अन्यपुष्टा अपि ताड्यमाना वितन्त्री इव श्रोतुः प्रतिकूलशब्दाः ।

Verse 46
प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): प्रवातेति । प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो विर्विशेषं निर्भेदं, तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितमायताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो गृहीतमभ्यस्तं नु । अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् । गृहीतं नु । अत्र विवक्षितस्य परस्पग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे
अन्वयः: प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या तया मृगाऽङ्गनाभ्यो गृहीतं नु ? (वा) मृगाङ्गनाभिः ततो गृहीतं नु ?

Verse 47
तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरानतलेखयोर्या । तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति । आयतलेखयोर्दीर्घरेखयोस्तस्याः पार्वत्या भ्रुवोः संबन्धिनी शलाकयाञ्जनेन निर्मितैव स्थिता या कान्तिर्लीलाचतुरां विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह सौन्दर्यातिशयोक्तिः
अन्वयः: आयतलेखयोः तस्या भ्रुवोः शलाकाऽञ्जननिर्मिता इव या कान्तिः, लीलाचतुरां तां वीक्ष्य अनङ्गः स्वचापसौन्दर्यमदं मुमोच ।

Verse 48
लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्युर्वालप्रियत्वं शिथिलं चमर्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): लज्जेति । तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि । संशयाभावोऽसंशयम् । सन्देहो नास्तीत्यर्थः । पर्वतराजपुत्र्याः । `शार्ङ्गरवाद्यञो ङीन्` (पा.4|1|73)इति ङीन् । तं प्रसिद्धं केशपाशं केशकलापम् । `पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे` इत्यमरः (अ.को.2|6|99) । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषाः बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् । प्रियबालत्वमित्यर्थः । आहिताग्न्यादिपाठाव्दा परनिपातः । `त्वतलोर्गुणवचनस्य` इति पुंवद्भावः । शिथिलं कुर्युः । निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहेतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलङ्कारः । तदुक्तम्-- `हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्` इति
अन्वयः: तिरश्चां चेतसि लज्जा स्यात् यदि, असंशयं पर्वतराजपुत्र्याः तं केशपाशं प्रसमीक्ष्य चमर्यः बालप्रियत्वं शिथिलं कुर्युः ।

Verse 49
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सर्वोपमेति । किंबहुना सा पार्वती विश्वसृजा विधात्रैकत्र तिष्ठतीत्येक्स्थं तस्य सौन्दर्यस्य । सर्ववस्तुगतस्येत्यर्थः । दिदृक्षयेव प्रयत्नाद्यथाप्रदेशं क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाद्युपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । दिदृक्षयेवेति फलोत्प्रेक्षा दर्शनार्थित्वाद्विश्वसृज इति
अन्वयः: सा विश्वसृजा एकस्थसौन्दर्यदिदृक्षया इव प्रयत्नात् यथा प्रदेशं विनिवेशितेन सर्वोपमाद्रव्यसमुच्चयेन निर्मिता ।

Verse 50
तां नारदः कामचरः कदा चित्कन्यां किल प्रेक्ष्य पितुः समीपे । समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति । कामेनेच्छया चरतीति कामचरो नारदः । कदाचित्पितुर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेक्ष्य किल प्रेम्णा न त्वन्यथा हरस्य शिवस्यार्धं हरतीत्यर्धहरा । `हरतेरनुद्यमनेऽच्` (पा.3|2|9) हत्यच्प्रत्ययः । शरीरास्यार्धहराम् शरीरार्धहराम् । कुलधुरन्धरादिवदवयवद्वारा समुदायविशेषकत्वात्समासः । अन्यथा त्वर्धस्य समप्रविभागवचनत्वादशरीरेति स्यात् । एकवधूमसपत्नीकां भार्याम् । `पूर्वकाल--` इत्यादिना समासः । भवित्रीं भाविनीं समादिदेश । हरस्यार्धाङ्गहारिण्येकपत्नी भविष्यतीत्यादिष्टवानित्यर्थः
अन्वयः: कामचरो नारदः कदाचित् पितुः समीपे कन्यां तां प्रेक्ष्य किल प्रेम्णा हरस्य शरीराऽर्द्धहराम् एकवधूं भवित्रीं समादिदेश ।

Showing 41 to 50 of 613 verses