कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 21 to 30 of 613 verses
Verse 21
अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी । सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति ॥ अथ मैनाकजननानन्तरं दक्षस्य प्रजापतेः कन्या भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता । `सती साध्वी पतिव्रता` इत्यमरः (अ.को.2|6|6) । सती नाम देवी । पितुर्दक्षस्य । कर्तरि षष्ठी । अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनकां प्रपेदे । अतःपुरा किल सती देवी दक्षाध्वरे तत्कृतां स्वभर्त्रवज्ञामसहमाना पितरं प्रसूं चोपेक्ष्य मत्कर्तव्यकार्यं त्वज्जामातैव करिष्यतीति निर्धार्य देवकार्याणि साधयितुं च योगाग्निना स्वशरीरं ददाहेति पुरावृत्तकथानुसंधेया
अन्वयः: अथ दक्षस्य कन्या भवपूर्वपत्नी सती सती पितुः अवमानेन प्रयुक्ताः योगविसृष्टदेहा (सती) जन्मने तां शैलवधूं प्रपेदे ।

Verse 22
सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या । सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सेति ॥ भव्या कल्याणी सा सती भूधराणामधिपेन हिमवता समाधिमत्यां नियमवत्यां तस्यां मेनकायां सम्यक्प्रयोगात्साध्वाचरणाद्धेतोरपरिक्षतायामभ्रष्टायां नीतावुत्साहगुणेनोत्साहशक्त्या । कर्त्रा । संपदिवोदपाद्युत्पादिता । उत्पद्यतेर्ण्यन्तात्कर्मणि लुङ् । `चिण्भावकर्मणोः` इति चिण्प्रत्ययः । `चिणो लुक्` (पा.6|4|104) इति तस्य लुक्
अन्वयः: भव्या सा भूधराणाम् अधिपेन समाधिमत्यां तस्यां सम्यक् प्रयोगात् अपरिक्षतायां नीतौ उत्साहगुणेन सम्पत् इव उदपादि ।

Verse 23
प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि । शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रसन्नेति ॥ प्रसन्ना निर्मला दिशो यस्मिंस्तत्प्रसन्नदिक् । पांसुविविक्ता रजोरहिता वाता यस्मिंस्तत्तथोक्तम् । शङ्खस्य स्वनात्स्वनस्य वानन्तरं पुष्पवृष्टिर्यस्मिंस्तत्तथोक्तं तस्याः पार्वत्या जन्मदिनम् । स्थितिशीलाः स्थावराः शैलवृक्षादयः । `स्थेशभासपिसकसो वरच्` (पा.3|2|175) इति वरच्प्रत्ययः । जङ्गम्यन्ते भृशं गच्छन्तीति जङ्गमा देवतिर्थङ्मनुष्यादयः । स्थावराश्च जङ्गमाश्च तेषां द्वयानामपि शरीरिणां सुखायानन्दाय बभूव
अन्वयः: प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनाऽनन्तरपुष्पवृष्टि तज्जन्मदिनं स्थवरजङ्गमानां शरीरिणां सुखाय बभूव ।

Verse 24
तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे । विदूरभूमिर्नवमेघशब्दादुद्भिन्नया रत्नशलाकयेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तयेति ॥ स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री जनयित्री । `स्वरतिसूतिसूयतिधूञूदितो वा` (पा.7|2|44) इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिर्विदूरभूमिः । `अवदूरं विदूरस्य गिरेरुत्तुङ्गरोधसः । काकतालीयसीमान्ते मणीनामाकरो भवेत् ॥` इति बुद्धः । नवमेघशब्दादुद्भिन्नया रत्नशलाकया रत्नाङ्कुरेव सुतरां चकासे रराज
अन्वयः: स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री विदूरभूमिः नवमेघशब्दात् उद्भिन्नया रत्नशलाकया इव सुतरां चकासे ।

Verse 25
दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): दिन इति ॥ लब्ध उदयो यया सा लब्धोदया । उत्पन्नेत्यर्थः । अभ्युदितेत्यन्यत्र दिने दिने प्रतिदिनम् । `नित्यवीप्सयोः` (पा.8|1|4) इति वीप्सायां द्विरुक्तिः । परिवर्धमाना । उभयत्र समानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान्कान्तिविशेषप्रचुरान् । `मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥` इति भूपालः । विशेषानवयवान् । `विशेषोऽवयवे व्यक्तौ` इत्युत्पलमालायाम् । ज्योत्स्नायामन्तरमन्तर्धानं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नायान्तर्हितानि । तन्मयानीति यावत् । अन्याः कलाः कलान्तराणीव सुप्सुपेति समासः । `स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम्` इति शाश्वतः । पुपोषोपचितवती । इयं वाक्योपमेत्याह दण्डी । तल्लक्षणं तु- `वाक्यार्थेनैव वाक्यार्थः काऽपि यद्युपमीयते । एकानेकेव शब्दत्वात् सा तु वाक्योपमा द्विधा ॥` इति
अन्वयः: लब्धोदया दिने दिने परिवर्धमाना सा चान्द्रमसी लेख इव लावण्यमयान् विशेषान् ज्योत्स्नान्तराणि कलान्तराणि इव पुपोष ।

Verse 26
तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव । उ मेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति ॥ बन्धुप्रियां तां बालां बन्धुजनः पित्रादिः । अभिजनादागतेनाभिजनेन । पित्रादिपूर्वसंबन्धोपाधिकेनेत्यर्थः । `अभिजनाः पुर्वबान्धवाः` इति काशिका । नाम्ना । पर्वतस्यापत्यं स्त्री पार्वती । `तस्यापत्यम्` (पा.4|1|92) इत्यणप्रत्ययः । इति जुहावाहूतवान् । ह्वयतेर्लिटि रुपम् । पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः । पश्चादभिजनानामप्रवृत्त्यनन्तरं मात्रा जनन्या । उ इति संबोधने । `उ इति वितर्कसंबोधनपादपूरणेषु` इति गणव्याख्याने । माशब्दो निषेधे । उ हे वत्से, मामा कुर्वित्येवंरुपेण । तपसस्तपश्चर्यायाः । `वारणार्थानामीप्सितः` (पा.1|4|27) इत्यपादानत्वात्पञ्चमी । निषिद्धा निवारिता सती सुमुखी सा बालोमेत्याख्यां नामधैयमुमाख्यां जगाम
अन्वयः: बन्धुप्रियां तां बन्धुजनः आभिजनेन नाम्ना `पार्वती` इति जुहाव । पश्चात् मात्रा `उमा` इति तपसो निषिद्धा (सती) उमाऽऽख्यां जगाम ।

Verse 27
महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): महीभृत इति । पुत्राश्च दुहितरश्च पुत्राः । `भ्रातृपुत्रौ स्वसृदुहितृभ्याम्` (पा.1|2|68) इत्येकशेषः । तेऽस्य सन्तीति पुत्रवान् । भूमार्थे मतुप् । तस्य पुत्रवतोऽपि । बह्वपत्यस्यापीत्यर्थः । महीभृतो हिमाद्रेर्दृष्टिश्चक्षुस्तस्मिन्नपत्ये तोके `अपत्यं तोकं तयोः समे` इत्यमरः (अ.को.2|6|28) । तस्यां पार्वत्यामित्यर्थः । तृप्तिं न जगाम । तथा हि अनन्तपुष्यस्य नानाविधकुसुमस्यापि मधोर्वसन्तस्य संबन्धिनी द्विरेफमाला भृङ्गपङ्क्तिश्चूतस्य विकारे चूते चूतकुसुमे । `अवयवे च प्राण्योषधिवृक्षेभ्यः` (पा.4|3|135) इति विकारार्थोत्पन्नस्याण्प्रत्ययस्य लुक्प्रकरणे `पुष्पमूलेषु बहुलम्` इति पठनाल्लुक् । सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता । अत्यन्तासक्तेत्यर्थः
अन्वयः: पुत्रवतोऽपि महीभृतो दृष्टिः तस्मिन् अपत्ये तृप्तिं न जगाम । हि अनन्तपुष्पस्य मधोः द्विरेफमाला चूते सविशेषसङ्गा ।

Verse 28
प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रभेति । प्रभामहत्या प्रकाशाधिकया शिखया ज्वालया दीप इव । शिखादीपयोरवयवावयविभावाद्भेदेन व्यपदेशः । त्रयो मार्गा यस्यास्तया त्रिमार्गया मन्दाकिन्या । तृतीया द्यौर्लेक इति त्रिदिवः स्वर्गः । वृत्तिविषये त्रिशब्दस्य त्रिभागवत्पूरणार्थत्वम् पृषोदरादित्वाद्दिवशब्दादकारागमः । पुंस्त्वं लोकात् । दीव्यतेर्घञर्थे कविधानम् । दीव्यन्त्यत्र जना इति क्षीरस्वामी । तस्य मार्ग इव । संस्कारो व्याकरणजन्या शुद्धिस्तद्वत्या गिरा वाचा । `भद्रैषां लक्ष्मीर्निहिताधि वाचि` इति श्रुतेरिति भावः । मनस ईषा मनीषा सास्यास्तीति मनीषी विद्वानिव । शकन्ध्वादित्वात्साधुः । तया पार्वत्या स हिमवान्पूतः शोधितश्च विभूषितश्च । अत्र शिखागिरोरविशिष्टयोरुपमानानर्हत्वान्न विशेषणाधिक्यदोषः । इयं मालोपमा
अन्वयः: प्रभामहत्या शिखया दीप इव, त्रिमार्गया त्रिदिवस्य मार्ग इव, संस्कारवत्या गिरा मनीषी इव, तया स पूतो विभूषितश्च ।

Verse 29
मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): मन्दाकिनीति ॥ सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः । रुचिरिति यावत् तं क्रीडारसम् । `रसो गन्धे रसः स्वादे` इति विश्वः । निर्विशतीव भुञ्जानेव । `निर्वेशो भृतिभोगयोः` इति विश्वः । `आच्छीनद्योर्नुम्` (पा.7|1|80) इति विकल्पान्नुमभावः । सखीनां मध्यगता सती मन्दाकिन्याः सैकतेषु पुलिनेषु वेदिकाभिः कन्दुकैः । क्रियया निर्वृत्तैः कृत्रिमैः । `ङ्वितः क्त्रिः` इति क्त्रिप्रत्ययः । `क्त्रेर्मम्नित्यम्` इति ममागमश्च । पुत्रकैः पाञ्चालिकाभिः । `पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता` इत्यमरः (अ.को.2|10|29) । `संज्ञायां कन्` (पा.4|3|147) इति कन्प्रत्ययः । मुहुः पुनः पुना रेमे
अन्वयः: सा बाल्ये क्रीडारसं निर्विशती इव सखीनां मध्यगता (सती) मन्दाकिनीसैकतवेदिकाभिः कृत्रिमपुत्रकैश्च मुहुः रेमे ।

Verse 30
तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः । स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति ॥ स्थिरः स्थेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् । मेधाविनीमित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः । पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधिं तृणविशेषमात्मभासः स्वदीप्तय इव प्रपेदिरे । उपमानसामर्थ्यादुपदेशमन्तरेणैवेति गम्यते
अन्वयः: स्थिरोपदेशां ताम् उपदेशकाले प्राक्तनजन्मविद्याः शरदि गङ्गां हंसमाला इव नक्तं महौषधिम् आत्ममास इव प्रपेदिरे ।