वियोग-दुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिः ।आहार्य-शोभा-रहितैरमायै- रैक्षिष्ट पुम्भिः प्रचितान्स गोष्ठान् ॥
Metre: उपजातिः
स्त्री-भूषणं चेष्टितम-प्रगल्भं चारूण्य-वक्राण्यपि वीक्षितानि । ऋजूंश्च विश्वास-कृतः स्वभावान्गोपाऽङ्गनानां मुमुदे विलोक्य ॥
Metre: उपजातिः
विवृत्त-पार्श्वं रुचिराऽङ्गहारं समुद्वहच्-चारु-नितम्ब-रम्यम् ।आमन्द्र-मन्थ-ध्वनि-दत्त-तालं गोपाऽङ्गना-नृत्यमनन्दयत्तम् ॥
Metre: उपजातिः
विचित्रमुच्चैः प्लवमानमारात्कुतूहलं त्रस्नु ततान तस्य । मेघाऽत्ययोपात्त-वनोपशोभं कदम्बकं वातमजं मृगाणाम् ॥
Metre: उपजातिः
सिताऽरविन्द-प्रचयेषु च लीनाः संसक्त-पेणेषु च सैकतेषु । कुन्दाऽवदाताः कलहंस-मालाः प्रतीयीरे श्रोत्र-सुखैर्निनादैः ॥
Metre: इन्द्रवज्रा
न तज्जलं यन्न सु-चारु-पङ्कजं न पङ्कजं तद्यद-लीन-षट्-पदम् । न षट्-पदोऽसौ न जुगुञ्ज यः कलं; न गुञ्जितं तन्न जहार यन्मनः ॥
Metre: वंशस्थम्
तं यायजूकाः सह भिक्षु-मुख्यैस्तपः-कृशाः शान्त्युदकुम्भ-हस्ताः । यायावराः पुष्प-फलेन चाऽन्ये प्राणर्चुरर्च्या जगदर्चनीयम् ॥
Metre: उपजातिः
विद्यामथैनं विजयां जयां च रक्षो-गणं क्षिप्नुम-विक्षताऽऽत्मा ।अध्यापिपद्गाधि-सुतो यथावन्निघातयिष्यन्युधि यातुधानान् ॥
Metre: उपजातिः
आयोधने स्थायुकमस्त्रजात- ममोघमभ्यर्ण-महाऽऽहवाय । ददौ वधाय क्षणदाचराणां तस्मै मुनिः श्रेयसि जागरूकः ॥
Metre: उपजातिः
तं विप्र-दर्शं कृत-घात-यत्ना यान्तं वने रात्रिचरी डुढौके । जिघांसु-वेदं धृत-भासुराऽस्त्रम्तां ताडकाऽऽख्यां निजघान रामः ॥
Metre: उपजातिः