सूत पश्य एनं व्यापद्यमानम् । (इति शरसंधानं नाटयति)
भो भो राजन्नाश्रममृगोऽयं न हन्वव्यो न हन्तव्यः ।
(आकर्ण्यावलोक्य च)आयुष्मन्नस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः ।
(ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः ।
(हस्तमुद्यम्य) राजन्नाश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि मृगशरीरे पुष्पराशाविवाग्निः । क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते ॥
Metre: मालिनी
तत्साधुकृतसंधानं प्रतिसंहर सायकम् ।आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥
Metre: अनुष्टुप्
एष प्रतिसंहृतः (इति यथोक्तं करोति)