कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Disable Parallel


Showing 31 to 40 of 613 verses
Verse 31
असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥
Anvaya:
अथ सा अङ्गयष्टेः असंभृतं मण्डनम्, अनासवाख्यं मदस्य करणं, कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं वयः प्रपेदे ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असंभृतमिति । अथ सा पार्वती । अङ्गयष्टेरसंभृतमयत्नसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यतिरिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशव त्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रमाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरुपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः । तदुक्तम्- `कारणाभावे कार्योत्पतिर्विभावना` इति । प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तूक्तम् `स्यादङ्गयष्टिरित्येवविधमाभासरुपकम् ।`

Verse 32
उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् । बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥
Anvaya:
नवयौवनेन विभक्तं तस्या वपुः तूलीकया उन्मीलितं चित्रम् इव, सूर्यांऽशुभिः भिन्नम् अरविन्दम् इव चतुरस्त्रशोभि बभूव
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उन्मीलितमिति ॥ नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । पीनजघनादिसंस्थानमित्यर्थः । तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया । शलाकयेत्यर्थः। `तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः` इति विश्वः । उन्मीलितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् । रुपमिति यावत् । चित्रमालेख्यमिव । सूर्यांशूभिर्भिन्नं विकसितमरविन्दं पद्ममिव चतस्त्रोऽस्त्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्त्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसंबन्ध इव स्वयं सिद्धस्यैवाङ्गसौष्ठवस्य यौवनप्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः

Verse 33
अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ । आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥
Anvaya:
अभ्युन्नताङ्गुष्ठनखप्रभाभिः निक्षेपणात् रागम् उद्गिरन्तौ इव तच्चरणौ पृथिव्याम् अव्यवस्यां स्थलाऽरविन्दश्रियम् आजह्रतुः ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अभ्युन्नतेति ॥ अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणान्निर्भरन्यासाद्धेतोः रागमन्तर्गतं लौहित्यम् । `रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु` इति शाश्वतः । उद्गिरन्तौ वमन्तौ । बहिर्निस्सारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेर्गौणार्थत्वान्न ग्राम्यतादोषः प्रत्युत गुण एव । यथाह दण्डी- `निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥` इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् । संचारिणीमित्यर्थः । स्थला विन्दश्रियमाजह्रतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः - `यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निमूढगुल्फौ निहतौ सा स्यान्नृपतिसंमता ॥` इति ।अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्दश्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालङ्कारः । सा च सम्बन्धेऽसम्बन्धलक्षणातिशयोक्त्यनुप्राणिताव्यवस्थामित्यनेन स्थलारविन्दस्य स्थैर्यसम्बन्धेऽप्यसम्बन्धाभिधानात्। निदर्शनालक्षणं तु- `असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥` इति

Verse 34
सा राजहंसैरिव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नूपुरसिञ्जितानि ॥
Anvaya:
प्रत्युपदेशलुब्धैः नूपुरसिञ्जितानि आदित्सुभिः राजहंसैः संनताङ्गी सा लीलाञ्चितविक्रमेषु गतेषु व्यनीयत इव ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सेति ॥ प्रत्युपदेशलुब्धैः । `गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते ।` इति न्यायादिति भावः । तदेव व्यनक्ति-नूपुरसिञ्जितान्यादित्सुभिरादातुमिच्छुभिः । मञ्जीरसिञ्जितमञ्जुकूजितोपदेशमिच्छद्भिरित्यर्थः । राजहंसैः संनताङ्गी । कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । `अञ्चेः पूजायाम्` (पा.7|2|53) इतीडागमः । लीला विलासक्रिययोः ` इत्यमरः` । गतेषु विषयेषु व्यवीयतेव विनीता किमु । अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा

Verse 35
वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ॥
Anvaya:
वृत्ताऽनुपूर्वे न च अति दीर्धे शुभे तदीये जङ्घे सृष्टवतः विधातुः शेषाङ्गनिर्माणविधौ उत्पाद्ये लावण्ये यत्न आस इव ।
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): वृत्तेति । वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे । गोपुच्छाकार इत्यर्थः । वृत्ते च ते अनुपूर्वे च वृत्तानुपूर्वे नातिदीर्धे च । महाविभाषया न समासः । नञो विशेषणत्वं चशब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । `जङ्घा तु प्रसृता` इत्यमरः (अ.को.2|6|73) । सृष्टवतो निर्मितवतो विधातुः स्त्रष्टुः शेषाङ्गनिर्माणविधौ । जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनः संपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षणं तूक्तम् (२५) श्लेक टीo। यत्न आसेव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां न लावण्योपादानकत्वात्पूर्वसंपादितस्य च जङ्घार्थमेव कार्त्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये दज्जङ्गे इति भावः । आसेति बभूवार्थे `तिङन्तप्रतिरुपकमव्ययम्` इत्याह शाकटायनः । वल्लभस्तु- `न तिङन्तप्रतिरुपकमव्ययम्` `अस्तेर्भूः` (पा.2|4|52) इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् । किंतु कवीनामयं प्रामादिकः प्रयेगः` इत्याह । वामनस्तु- `अस गतिदोप्त्यादानेष्वितिः धातोर्लिटि रुपमिदम्` इत्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे आस दिदीपे । प्रवृत्त इत्यर्थः

Verse 36
नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः । लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥
Anvaya:
नागेन्द्रहस्ताः त्वचि कर्कशत्वात्, कदलीविशेषाः एकान्तशैत्यात् लोके परिणाहि रुपं लब्ध्वा अपि तदूर्वोः उपमानबाह्याः जाताः ।
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): नागेन्द्रेति । नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात्कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः लोके परिणाहि वैपुल्ययुक्तम् । `परिणाहो विशालता` इत्यमरः (अ.को.2|6|115) । रुपं लब्ध्वापि । अपिशब्दात्करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरुपमानबाह्या जाता उपमानक्रियानर्हा बभृवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्यमिति भावः

Verse 37
एतावता नन्वनुमेयशोभं काञ्चीगुणस्थानमनिन्दितायाः । आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥
Anvaya:
यत् पश्चात् गिरिशेन अनन्यनारीकमनीयम् अङ्कम् आरोपितम्, अनिन्दितायाः काञ्चीगुणस्थानम् एतावता अनुमेयशोभि ननु ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): एतावतेति । अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बमेतावता नन्वेतावतैव ॥ `प्रश्नावधारणानुज्ञानुनया मन्त्रणे ननु` इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्तप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । `त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः` इत्याह वामनः । पश्चादादौ नौःस्पृह्येऽपि पश्चात् । तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः शिवः । `गिरौ डश्छन्दसि` इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते। अथवा गिरिः कैलासोऽस्यास्तीति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्तात्कर्मणि क्तः । `रुहः पोऽन्यतरस्याम्` (पा.7|3|43) इति हकारस्य पकारः । गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायिसौन्दर्यं गिरिशाङ्कारुढत्वाद्व्द्यतिरेकेण नार्यन्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण

Verse 38
तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः । नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥
Anvaya:
नीवीम् अतिक्रम्य नतनाभिरन्ध्रं प्रविष्टा तन्वी तस्या नवलोमराजिः सितेतरस्य तन्मेखलामध्यमणेः अर्चिः इव रराज ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्य इति ॥ नीवीं वस्त्रग्रन्थिम् । `स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च` इत्यमरः अतिक्रम्यातीत्य नतं निम्नं नाभिरन्ध्रं प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सितेतरस्यासितस्य । इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । तस्या इत्यनुवृत्तौ पुनस्तच्छब्दोपादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा तस्या नीव्या मेखला तन्मेखला तत्र तदवस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । `ज्वालाभासोर्नपुंस्यर्चि` इत्यमरः

Verse 39
मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥
Anvaya:
वेदिविलग्नमध्या सा बाला मध्येन चारु बलित्रयं कामस्य आरोहणार्थं नवयौवनेन प्रयुक्तं सोपानम् इव बभार ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मध्येनेति ॥ `वेदिः परिष्कृता भूमिः` इत्यमरः । वेदिविलग्नमध्या वेदिवत्कृशमध्या । तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा

Verse 40
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥
Anvaya:
अन्योन्यम् उत्पीडयत् पाण्डु उत्पलाक्ष्याः स्तनव्दयं तथा प्रवृद्धं, श्याममुखस्य तस्य मध्ये यथा मृणालसूत्रान्तरम् अपि अलभ्यम् ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अन्योन्येति । अन्योन्यं परस्परम् । `कर्मव्यतिहारे सर्वनाम्ना द्वे वाच्ये` इति द्विरुक्तिः । `समासवच्च बहुलम्` इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्यः । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनव्दयं तथा तेन प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरुपवर्णनं तस्य स्तनव्दयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । `अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये` इत्यमरः (अ.को.3|3|195) । अत्र संबन्धेऽसंबन्धरुपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंबन्धेऽप्यसंबन्धाभिधानादिति