कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Enable Parallel


Showing 21 to 30 of 268 verses
तस्यां च दण्डकारण्यान्तःपाति, सकलभुवनतलाख्यातम्, उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य, दक्षिणाशामुखविशेषकम्य सुरलोकात् एकहुंकारनिपातितनहुषप्रकटप्रभावस्य भगवतो महामुनेः अगस्त्यस्य, भार्यया लोपामुद्रया स्वयमपरचितालवालकैः करपुटसलिलसेकसंवर्धितैः सुतनिर्विशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रतेनाषाढिना गृहीतहरितपर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनामा पवित्रीकृतम्, सरिता च गोदावर्या परिगतम्, आश्रमपदमासीत् ॥

यत्र च दशरथवचनम् अनुपालयन्नुत्सृष्टराज्यो रामो महामुनिमगस्त्यम् अनुचरन् सह सीतया लक्ष्मणोपरचितरुचिरपर्णशालः पञ्चवट्यां कञ्चित्कालं सुखमुवास । यत्र च पीतोद्गीर्णं जलनिधिजलमिव मुनिना निखिलमाश्रमोपान्तवर्तिषु विभक्तं महाह्रदेषु। अत्यायतश्च यस्मिन् दशरथसुतशरनिपातितो योजनबाहोबहुः अगस्त्यप्रसादनागतनहुषाजगरकायशङ्काम् अकरोदृषिजनस्य।

तस्य चैवंविधस्य संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्तस्य अगस्त्याश्रमस्य नातिदूरे जलनिधिपानप्रकुपितवरुणोत्साहितेन अगस्त्यमत्सरात् तदाश्रमसमीपवर्त्यपर इव वेधसा महाजलनिधिरुत्पादितः, अम्बुरुह-मधुपान-मत्त-कलहंस-कामिनी-कृत-कोलाहलम्, अनिलोल्लासित-कल्लोल-शिखर-शीकरारब्धदुर्दिनम्, एकदेशावतीर्ण-मुनिजनापूर्यमाण-कमण्डलु-कलकलध्वनिमनोहरम्, उदवासितापसानां देवतार्चनोपयुक्ताकुसुमाभिः लतामण्डपतलस्थितशिखण्डिमण्डलारब्धताण्डवाभिः अनेककुसुमपरिमलवाहिनीभिः वनराजिभिः उपद्धतीरम्, अपरसागराशङ्कभिः सलिलमादातुमवतीर्णैः जलधरैरिव बहलपङ्कमलिनैर्वनकरिभिः अनवरतमापीयमानसलिलम्, अगाधम्, अप्रतिमम्, अपां निधानं पम्पाभिधानं पद्मसरः ॥

तस्यैवंविधस्य पद्मसरसः पश्चिमे तारे दिग्गजकरदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव, दिक्चक्रवालपरिमाणमिव गृह्णता भुवनान्तरालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुजसहस्रम् उडुपतिशकलशेखरमिव विडम्बयितुमुद्यतः, परिपीत सागरसलिलैर्गगनागतैः शाखान्तरेषु निलीयमानैः क्षणमम्बुभारालसैः आर्द्रीकृतपल्लवैः जलधरपटलैरपि अदृष्टशिखरदेशः, तुङ्गतया नन्दनवनश्रियमिव अवलोकयितुमभ्युद्यतः, नलिननाभ इव वनमालोपगूढः, नवजलधरव्यूह इव नभसि दर्शितोन्नतिः, अखिलभुवनतलावलोकनप्रासाद इव वनदेवतानाम्, अधिपतिरिव दण्डकारण्यस्य, महान् जीर्णः शाल्मलीवृक्षः ॥

तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंधिषु जीर्णवल्कलविवरेषु महावकाशतया विस्रब्धविरचितकुलायसहस्राणि दुरारोहतया विगलितविनाशभयानि नानादेशसमागतानि शुकशकुनिकुलानि प्रतिवसन्ति स्म । यैः परिणामविरलदलसंहतिरपि स वनस्पतिरविरलदलनिचयश्यामल इवोपलक्ष्यते दिवानिशं निलीनैः। ते च तस्मिन्वनस्पतावतिवाह्यातिवाह्य रजनीमात्मनीडेषु, प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपङ्क्तयः, दिवसकररथतुरगप्रभानुलिप्तमिव गगनतलमुपपादयन्तः, संचारिणीमिव मरकतस्थलीं विडम्बयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्म शुकशकुनयः। कृताहाराश्च पुनः प्रतिनिवृत्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान् फलरसान् कलममञ्जरीविकारांश्च चञ्चुपुटेन दत्त्वा दत्त्वा, अधरीकृतसर्वस्नेहेनासाधारणेन गुरुणापत्यप्रेम्णा तस्मिन्नेव क्रोडान्तर्निहिततनयाः क्षपाः क्षपयन्ति स्म ||

एकस्मिंश्च जीर्णकोटरे जायया सह निवसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुरहमेवैको विधिवशात्सूनुरभवम् । अतिप्रबलया चाभिभूता ममैव जायमानस्य प्रसववेदनया जननी मे लोकान्तरमगमत्। अभिमतजायाविनाशशोकदुःखितोऽपि खलु तातः सुतस्नेहादन्तर्निगृह्य पटुप्रसरमपि शोकम्, एकाकी मत्संवर्धनपर एवाभवत् । अतिपरिणतवयाश्च, अवस्रस्तांसदेशशिथिलामपगतोत्पतनसंस्कारां पक्षसंततिमुद्वहन्, उपारूढकम्पतया च संतापकारिणीमङ्गलग्नां जरामिव विधुन्वन्, स्फुटिताग्रकोटिना चञ्चुपुटेन परनीडनिपतिताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय तरुमूलनिपतितानि शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रमितुमशक्तो मह्यमदात् । प्रतिदिवसमात्मना च मदुपभुक्तशेषमकरोदशनम् ॥

एकदा तु प्रभातसंध्यारागलोहिते अपरजलनिधितटमवतरति चन्द्रमसि, व्रजति विशालतामाशाचक्रवाले, आतप्तलाक्षिकतन्तुपाटलाभिः आयामिनीभिरशिशिरकिरणदीधितिभिः पद्मरागरत्नशलाकासंमार्जनीभिरिव समुत्सार्यमाणे गगनकुट्टिमकुसुमप्रकरे तारागणे, क्षपाजलजडकेसरं कुसुमनिकरमुदयगिरिशिखरस्थितं सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः समुत्सृजति कानने, धर्मपताकास्विव समुन्मिषन्तीषु तपोवनाग्निहोत्रधूमलेखासु, विघटमानकमलखण्डमधुशीकरासारवर्षिणि निशावसानजातजडिम्नि मन्दमन्दसंचारिणि प्रवाति प्राभातिके मातरिश्वनि, मधुलिहां कुमुदोदरेषु घनघटमानदलपुटनिबद्धपक्षसंहतीनामुञ्चरत्सु हुंकारेषु, प्रभातशिशिरमारुताहतमुत्तप्तजतुरसाश्लिष्टपक्ष्ममालमिव सशेषनिद्राजिह्मतारं चक्षुरुन्मीलयत्सु शनैः शनैरूषरशय्याधूसरक्रोडरोमराजिषु वनमृगेषु, विजृम्भमाणे श्रोत्रहारिणि पम्पासरःकलहंसकोलाहले, स्पष्टे जाते प्रत्युषसि, न चिरादिव दिवसाष्टमभागभाजि स्पष्टभासि भास्वति भूते, प्रयातेषु यथाभिमतानि दिगन्तराणि शुककुलेषु, कुलायनिलीननिभृतशावकसनाथेऽपि निःशब्दतया शून्य इव तस्मिन्वनस्पतौ, स्वनीडावस्थित एव ताते, मयि च शैशवादसंजातबलसमुद्भिद्यमानपक्षपुटे तातस्य समीपवर्तिनि कोटरगते, सहसैव तस्मिन्महावने, संत्रासितसकलवनचरः, सरभसमुत्पतत्पतत्रिपक्षपुटशब्दसंततः, भीतकरिपोतचीत्कारपीवरः, परिभ्रमदुद्घोणवनवराहरवघर्घरः, गिरिगुहासुप्तप्रबुद्धसिंहनादोपबृंहितो मृगयाकोलाहलध्वनिरुदचरत् ॥

आकर्ण्य च तमहमश्रुतपूर्वमुपजातवेपथुरर्भकतया जर्जरितकर्णविवरो भयविह्वलः समीपवर्तिनः पितुः प्रतीकारबुद्ध्या जराशिथिलपक्षपुटान्तरमविशम् ॥

अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमलः, इतः क्रोडकुलदश्यमानभद्रमुस्तारसामोदः, इतो वनमहिषविषाण कोटिकुलिशभिद्यमानवल्मीकधूलिः, इतो वनगजकुलम्, इतो वनमहिषवृन्दम्, इतो मृगपतिनखभिद्यमानकुम्भकुञ्जररसितम्, इयमार्द्रपङ्कमलिना वराहपद्धतिः, इयमभिनवशष्पकबलरसश्यामला हरिणरोमन्थफेनसंहतिः, एषा निपतितरुधिरबिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एष नखकोटिविलिखितविकटपत्रलेखो रुधिरपाटलः करिमौक्तिकदलदन्तुरो मृगपतिमार्गः, इयमटवीवेणिकानुकारिणी पक्षचरस्य यूथपतेर्मदजलमलिना संचारवीथी, चमरीपङ्कतिरियमनुगम्यताम्, त्वरिततरमध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलोक्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां श्वानः, इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् ॥

अथ नातिचिरादिव गिरिविवरविजृम्भिप्रतिनादगम्भीरेण शबरशरताडितानां केसरिणां निनादेन, सरभससारमेयविलुप्यमानावयवानाम् आलोलकातरतरलतारकाणाम् एणकानां च करुणकूजितेन, तरुशिखरसमुत्पतितानाम् आकुलाकुलचारिणां च पत्त्ररथानां कोलाहलेन, सर्वतः प्रचलितमिव तदरण्यमभवत् । अचिराच्च प्रशान्ते तस्मिन्मृगयाकलकले, मन्दीभूतभयोऽहमुपजातकुतूहलः पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य संत्रासतरलतारकः शैशवात्किमिदमिति समुपजातदिदृक्षतामेव दिशं चक्षुः प्राहिणवम् ॥