अपसृते च तस्मिन्, स विहङ्गगराजो राजाभिमुखो भूत्वा समुन्नमय्य दक्षिणं चरणम् अतिस्पष्टवर्णस्वरसंस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यामिमाम् आर्यां पपाठ —
स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥
राजा तु तां श्रुत्वा संजातविस्मयः सहर्षम् आसन्नवर्तिनम् अतिवयसम् अग्रजन्मानम् अखिलमन्त्रिमण्डले प्रधानम् अमात्यं कुमारपालितनामानम् अब्रवीत् — “ श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता ? प्रथमं तावदिदमेव महदाश्चर्यम्, यदयमसङ्कीर्णवर्णप्रविभागाम् अभिव्यक्तमात्रानुस्वारसंस्कारयोगविशेषसंयुक्तपरिस्फुटाक्षरां गिरम् उदीरयति । तत्र पुनरपरम् अभिमतविषये तिरश्चोऽपि मनुजस्येव संस्कारवतो बुद्धिपूर्वा प्रवृत्तिः । तथा हि — अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दम् अयम् आर्यां मामुद्दिश्य अतिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारनिद्रासंज्ञामात्रवेदिनो भवन्ति । इदं महच्चित्रम् ” इत्युक्तवति भूभुजि कुमारपालितः किंचित्स्मितवदनो नृपमवादीत् — “ देव, किमत्र चित्रम् । एते हि शुकशारिकाप्रभृतयो विहंगमविशेषा यथाश्रुतां वाचमुच्चारयन्ति इति अधिगतमेव देवेन । तत्रापि अन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यत् — एतेषामपि पुरा पुरुषाणामिव अतिपरिस्फुटाभिधाना वागासीत् । अग्निशापात् तु अपरिस्फुटालापता शुकानामुपजाता, करिणां च जिह्वापरिवृत्तिः” इति । एवमुञ्चारयत्येव तस्मिन्, अशिशिरकिरणम् अम्बरतलस्य मध्यम् आरूढम् आवेदयन् नाडिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य च समासन्नस्नानसमयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ।
अथ चलति महीपतौ अन्योन्यम् अतिरभस-संचलन-चालित-अङ्गद-पत्रभङ्ग-मकर-कोटि-पाटित-अंशुक-पटानाम्, गमनप्रणामलालसानाम् अहमहमिकया, वक्षःस्थलप्रेङ्खोलितहारलतानाम्, उत्तिष्ठताम् आसीत् अतिमहान् संभ्रमो महीपतीनाम् । इतश्चेतश्च निष्पतन्तीनां स्कन्धदेशावसक्तचामराणां चामरग्राहिणीनां पदे पदे रणितमणीनां मणिनूपुराणां निनादेन, प्रतीहारीणां च पुरः ससंभ्रमं समुत्सारितजनानां भवनप्रासादकुञ्जेषु उच्चरितप्रतिशब्दतया दीर्घतामुपगतेनालोकशब्देन, प्रचलितजनचरणशतसंक्षोभभयादपहाय कुसुमप्रकरमुत्पततां च मधुलिहां हुंकृतेन, संक्षोभात् अतित्वरितपदप्रवृत्तैः अवनिपतिभिः केयूरकोटिताडितानां क्वणितमुखररत्नदाम्नां च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् ॥
अथ विसर्जितराजलोकः ‘ विश्रम्यताम् ’ इति स्वयमेवाभिधाय तां चाण्डालकन्यकाम्, वैशम्पायनः प्रवेश्यतामभ्यंन्तरम्' इति ताम्बूलकरङ्कवाहिनीमादिश्य, कतिपयाप्तराजपुत्रपरिवृतो नरपतिरभ्यन्तरं प्राविशत् । अपनीताशेषभूषणश्च दिवसकर इव विगलितकिरणजालः समुपाहृतसमुचितव्यायामोपकरणो व्यायामभूमिमयासीत् । स तस्यां च समानवयोभिः सह राजपुत्रैः कृतमधुरव्यायामः, तत्कालं विरलजनेऽपि राजकुले समुत्सारणाधिकारमुचितमाचरद्भिः दण्डिभिरुपदिश्यमानमार्गः, गन्धोदकपूर्णकनकमयजलद्रोणीसनाथमध्याम्, उपस्थापितस्फाटिकास्नानपीठाम्, एकान्तनिहितैरतिसुरभिगन्धसलिलपूर्णैः स्नानकलशैरुपशोभितां स्नानभूमिमगच्छत् ॥
ततश्च तत्र निर्वर्तिताभिषेको विषधरनिर्मोकपरिलघुनी धवले परिधाय धौतवाससी, अतिधवलजलधरच्छेदशुचिना दुकूलपट्टपल्लवेन कृतशिरोवेष्टनः, संपादितपितृजलक्रियो मन्त्रपूतेन तोयाञ्जलिना दिवसकरमभिप्रणम्य देवगृहमगमत् । उपरचितपशुपतिपूजनश्च निष्क्रम्य देवगृहान्निवर्तिताग्निकार्यो विलेपनभूमौ मृगमदकर्पूरकुङ्कुमवाससुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालतीकुसुमशेखरः कृताम्बरपरिवर्ती रत्नकर्णपूरमात्राभरणः समुचितभोजनैः सह भूपतिभिराहारम् अभिमतरसास्वादजातप्रीतिरवनिपो निर्वर्तयामास ॥
परिपीतधूमवर्तिरुपस्पृश्य च गृहीतताम्बूलः तस्मात् प्रमृष्टमणिकुट्टिमात् प्रदेशादुत्थाय, नातिदूरवर्तिन्या ससंभ्रमप्रधावितया प्रतीहार्या प्रसारितं बाहुमवलम्ब्य, अभ्यन्तरसंचारसमुचितेन परिजनेनानुगम्यमानः, धवलांशुकजवनिकापरिगतपर्यन्ततया स्फटिकमणिमयभित्तिबद्धमिवोपलक्ष्यमणम्, अतिसुरभिणा मृगनाभिपरिगतेनामोदिना चन्दनवारिणा सिक्तशिशिरमणिभूमिम्, उत्कीर्णसालभञ्जिकानिवहेन गन्धसलिलक्षालितेन कलधौतमयेन स्तम्भसंचयेन विराजमानं, कुसुमामोदवासितप्रच्छदपटेन पट्टोपधानाध्यासितशिरोधाम्ना शयनेन सनाथीकृतवेदिकम् आस्थानमण्डपमयासीत् । तत्र च शयनतलनिषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्गनिहितासिलतया खङ्गवाहिन्या नवनलिनदलकोमलेन करसंपुटेन संवाह्यमानचरणः तत्कालोचितदर्शनैः अवनिपतिभिः अमात्यैर्मित्रैश्च सह तास्ताः कथाः कुर्वन्मुहूर्तमिवासांचक्रे । ततो नातिदूरवर्तिनीम् ‘ अन्तःपुराद्वैशम्पायनमादायागच्छ ’ इति समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतीहारीमादिदेश ।
अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः कनकवेत्रलतावलम्बिना किंचिदवनतपूर्वकायेन सितकञ्चुकावच्छन्नवपुषा कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितलनिहितकरतलस्तु कञ्चुकी राजानं व्यज्ञापयत् — “ देव, देव्यो विज्ञापयन्ति — देवादेशात् एष वैशम्पायनः स्नातः कृताहारश्च देवपादमूलं प्रतीहार्या नीतः ” इत्यभिधाय गते च तस्मिन्, राजा वैशम्पायनमपृच्छत् — ‘कच्चिदभिमतम् आस्वादितमभ्यन्तरे भवता किंचिदशनजातम्’ इति । स प्रत्युवाच — ‘ देव, किं वा नास्वादितम् । आमत्तकोकिललोचनच्छविः नीलपाटलः कषायमधुरः प्रकाममापीतो जम्बूफलरसः । हरिनखरभिन्नमत्तमातङ्गकुम्भमुक्तरक्तार्द्रमुक्ताफलात्विंषि खण्डितानि दाडिमबीजानि । नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च दलितानि स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते ’ इति । एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत् — “आस्तां तावत्सर्वमेवदम् । अपनयतु नः कुतूहलम् । आवेदयतु भवानादितः प्रभृति कार्त्स्न्येन । आत्मनो जन्म कस्मिन्देशे ? भवान्कथं जातः ? केन वा नाम कृतम् ? का माता ? कस्ते पिता ? कथं वेदानामागमः ? कथं शास्त्राणां परिचयः ? कुतः कलाः समासादिताः ? किं जन्मान्तरानुस्मरणम् ? उत वरप्रदानम् ? अथवा विहङ्गवेषधारी कश्चिच्छन्नं निवससि ? के वा पूर्वमुषितम् ? कियद्वा वयः ? कथं पञ्जरबन्धः ? कथं चाण्डालहस्तगमनम् ? इह वा कथमागमनम् ?” इति । वैशम्पायनस्तु स्वयमुपजातकुतूहलेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् — “देव, महतीयं कथा । यदि कौतुकमाकर्ण्यताम् —
अस्ति पूर्वापरजलनिधिवेलावलग्ना मध्यदेशालंकारभूता मेखलेव भुवः, वनकरिकुलमदजलसेकसंवर्धितैः अतिविकचधवलकुसुमनिकरम् अत्युच्चतया तारागणमिव शिखरदेशलग्नमुद्वहद्भिः पादपैरुपशोभिता, मधुमदोपरक्तकरलीकपोलकोमलच्छविना संचरद्वनदेवताचरणालक्तकरसञ्जतेनेव पल्लवप्रचयेन संछादिता, प्रेताधिपनगरीव सदासंनिहितमृत्युभीषणा महिषाधिष्ठिता च, कात्यायनीव प्रचलितखङ्गभीषणा रक्तचन्दनालंकृता च, कंचित्प्रलयवेलेव महावराहदंष्ट्रासमुखातधरणिमण्डला, क्वचित्समरभूमिरिव शरशतनिचिता, क्वचिन्नारायणमूर्तिरिव तमालनीला, क्वचिद्विराटनगरीव कीचकशतावृता, विन्ध्याटवी नाम ॥