रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 11 to 20 of 1569 verses
Verse 11
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् । आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वैवस्वत इति॥ मनस ईषिणो मनीषिणो धीराः, विद्वांस इति त्यावत्। पृषोदरादित्वात्साधुः। तेषां माननीयः पूज्यः। छन्दसां वेदानाम्। `छन्दः पद्मे च वेदे च`इति विश्वः। प्रणव ओंकार इव। महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः। क्षिधातोरैश्वर्यार्थात्क्विप्, तुगागमश्च। तेषाम्, आद्य आदिभूतः। विवस्वतः सूर्यस्यापत्यं पुमान् वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ॥

Verse 12
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदन्वय इति॥ शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिमति तदन्वये तस्य मनोरन्वये कुले । `अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनं कुलम्` इति हलायुधः। अतिशयेन शुद्धिमान् शुद्धिमत्तरः। `द्विवचनविभज्योप-` (पा.5।3।57) इत्यादिना तरप्प्रत्ययः। दिलीप इति प्रसिद्धो राजा इन्दुरिव राजेन्दू राजश्रेष्ठः। उपमितं व्याघ्रादिना समासः। क्षीरनिधाविन्दुरिव प्रसूतो जातः॥

Verse 13
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): व्यूढेति॥ व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः। `उरःप्रभृतिभ्यः कप्‌` (पा.5।4।151)। `व्यूढं विपुलं भद्रं स्फारं समं वरिष्ठं च` इचि यादवः। वृषस्य स्कन्ध इव स्कन्धो यस्य स तथा। `सप्तम्युपमान-`इत्यादिनोत्तरपदलोपी बहुव्रीहिः। शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः। `प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः।` इति यादवः। `उञ्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे` इत्यमरः। महाभुजो महाबाहुः। आत्मकर्मक्षमं स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः, क्षात्रः क्षत्रसंबन्धी धर्म इव स्थितः, मूर्तिमान् पराक्रम इव स्थित इत्युत्प्रेक्षा ॥

Verse 14
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सर्वातिरिक्तेति॥ सर्वातिरिक्तसरेण सर्वेभ्यो भूतेभ्योऽधिकबलेन। `सारोबले स्थिरांशे च` इत्यमरः। सर्वाणि भूगतानि तेजसाऽभिभवतीति सर्वतेजोभिभावी तेन। सर्वेभ्य उन्नतेनात्मना शरीरेण। `आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि` इति विश्वः। मेरुरिव। उर्वीं क्रान्त्वाऽऽक्रम्य स्थितः। मेरावपि विशेषणानि तुल्यानि। `अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः। तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥` (मनु.7।5)इति मनुवचनाद्राज्ञः सर्वतेजोभिभावित्वं ज्ञेयम् ॥

Verse 15
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आकारेति॥ आकारेण मूर्त्या सदृशी प्रज्ञा यस्य सः। प्रज्ञया सदृशागमः प्रज्ञानुरूपशास्त्त्रपरिश्रमः। आगमैः सदृश आरम्भः कर्म यस्य स तथोक्तः। आरभ्यत इत्यारम्भः कर्म। तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः ॥

Verse 16
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्य यादोरत्नैरिवार्णवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भीमेति॥ भीमैश्च कान्तैश्च नृपगुणै राजगुणैस्तेजः प्रतापादिभिः कुलशीलदाक्षिण्यादिभिश्च स दिलीप उपजीविनामाश्रितानाम्। यादोभिर्जलजीवैः। `यादांसि जलजन्तवः` इत्यमरः (अ.को.1|10|20)। रत्नैश्चार्णव इव। अधृष्योऽनभिभवनीयश्चाभिगम्य आश्रयणीयश्च बभूव ॥

Verse 17
रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रेखामात्रमिति॥ नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य संबन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिर्व्यापारो यासां ताः। `चक्रधारा प्रधिर्नेमिः` इति यादवः। `चक्रं रथाङअगं तस्यान्ते नेमिः स्त्त्री स्यात्प्रधिः पुमान्` इत्यमरः। प्रजाः। आ मनोः, मनुमारभ्येत्यभिविधिः। पदद्वयं चैतत्। समासस्य विभाषितत्वात्। क्षुण्णादभ्यस्तात् प्रहताञ्च वर्त्मन आचारपद्धतेरध्वनश्च परमधिकम्। इतस्तत इत्यर्थः। रेखा प्रमाणमस्येति रेखामात्रं रेखाप्रमाणम्। ईषदपीत्यर्थः। `प्रमाणे द्वयसच्-` (पा.5।2।37) इत्यादिना मात्रच्प्रत्ययः। परशब्दविशेषणं चैतत्। न व्यतीयुर्नातिक्रान्तवत्यः। कुशलसारथिप्रेरिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्गं न जहुरिति भावः॥

Verse 18
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रजानामिति॥ स राजा प्रजानां भूत्या अर्थाय भूत्यर्थं वृध्द्यर्थमेव। अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या। ग्रहणक्रियाविशेषणं चैतत्। ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत्। `भागधेयः करो बलिः` इत्यमरः (अ.को.2|8|27)। तथा हि-रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधा। उत्स्रष्टुं दातुम्। उत्सर्जनक्रियाविशेषणं चैतत्। रसमम्बु। आदत्ते गृह्णाति। `रसो गन्धे रसे स्वादेतिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे॥` इति विश्वः ॥

Verse 19
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सेनेति॥ तस्य राज्ञः सेना चतुरङ्गबलम्। परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव। छत्रचामरादितुल्यमभूदित्यर्थः। `पुंसि संज्ञायां घः प्रायेण` (पा.3।3।118) इति घप्रत्ययः। `छादेर्घोऽव्द्युपसर्गस्य` (पा.6।4।96) इत्युपधाह्रस्वः। अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव। शास्त्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः। `व्यापृता`इत्यपि पाठः। धनुष्यातताऽऽरोपिता। मौर्वी ज्या च। `मौर्वी ज्याशिञ्जिनी गुणः` इत्यमरः। नीतिपुरः सरमेव तस्य शौर्यमभूदित्यर्थः॥

Verse 20
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ संवृतमन्त्रस्य गुप्तविचारस्य। `वेदभेदे गुप्तवादे मन्त्रः` इत्यमरः (अ.को.3|3|175)। शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः। इङ्गितं चेष्टितं हृदयगतविकारो वा। `इङ्गितं हृद्गतो भावो बहिराकार आकृतिः` इति सज्जनः। गूढे आकारेङ्गिते यस्य। स्वभावचापलाद्भ्रमपरम्परया मुखरागादिलिङ्गैर्वाऽतृतीयगामिमन्त्रस्य तस्य। प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः। `प्राक्`इत्यव्ययेन पूर्वजन्मोच्यते। तत्र भवाः प्राक्तनाः। `सायंचिरं-` (पा.4।3।23)इत्यादिना ट्युल्प्रत्ययः। संस्काराः पूर्वकर्मवासना इव फलेन कार्येण अनुमेया अनुमातुं योग्या आसन्। अत्र याज्ञवल्क्यः(आचार.13।344)-`मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामा फलोदयात् ॥` इति ॥

Showing 11 to 20 of 1569 verses