जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृद्-गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥
Metre: अनुष्टुप्
मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ।अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥
Metre: वियोगिनी
अपसर सखे दूरादस्मात्कटाक्ष-विषानलात्प्रकृति-विषमाद्योषित्-सर्पाद्विलास-फणाभृतः ।इतर-फणिना दष्टः शक्यश्चिकित्सितुमौषधैश्चतुर्- वनिताभोगि-ग्रस्तं हि मन्त्रिणः ॥
Metre: हरिणी
विस्तारितं मकर-केतन-धीवरेण स्त्री-संज्ञितं बडिशमत्र भवाम्बु-राशौ । येनाचिरात्तद्-अधरामिष-लोल-मर्त्य- मत्स्यान्विकृष्य विपचत्यनुराग-वह्नौ ॥
Metre: वसन्ततिलका
कामिनी-काय-कान्तारे कुच-पर्वत-दुर्गमे । मा संचर मनः पान्थ तत्रास्ते स्मर-तस्करः ॥
Metre: अनुष्टुप्
व्यादीर्घेण चलेन वक्त्र-गतिना तेजस्विना भोगिना नीलाब्ज-द्युतिनाहिना परमहं दृष्टो न तच्-चक्षुषा । दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो मुग्धाक्ष्क्षण-वीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥
Metre: शार्दूलविक्रीडितम्
इह हि मधुर-गीतं नृत्यमेतद्-रसोऽयं स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।इति हत-परमार्थैरिन्द्रियैर्भ्राम्यमाणः स्व-हित-करण-धूर्तैः पञ्चभिर्वञ्चितोऽस्मि ॥
Metre: मालिनी
न गम्यो मन्त्राणां न च भवति भैषज्य-विषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिक-शतैः । भ्रमावेशादङ्गे कमपि विदधद्भङ्गमसकृत्स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥
Metre: शिखरिणी
जात्य्-अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्-कुष्ठाभिभूताय च । यच्छन्तीषु मनोहरं निज-वपु-लक्ष्मी-लव-श्रद्धया पण्य-स्त्रीषु विवेक-कल्प-लतिकाश-स्त्रीषु राज्येत कः ॥
Metre: शार्दूलविक्रीडितम्
वेश्यासौ मदन-ज्वाला रूपेऽन्धन-विवर्धिता । कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥
Metre: अनुष्टुप्