कान्तेत्युत्पल-लोचनेति विपुल-श्रोणी-भरेत्युन्नमत्पीनोत्तुङ्ग- पयोधरेति समुखाम्भोजेति सुभ्रूरिति । दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचि-भस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥
Metre: शार्दूलविक्रीडितम्
स्मृता भवति तापाय दृष्टा चोन्माद-कारिणी । स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥
Metre: अनुष्टुप्
तावदेवामृतमयी यावल्लोचन-गोचरा । चक्षुष्-पथादतीता तु विषादप्यतिरिच्यते ॥
Metre: अनुष्टुप्
नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीम् । सैवामृत-लता रक्ता विरक्ता विष-वल्लरी ॥
Metre: अनुष्टुप्
आवर्तः संशयानामविनय-भुवनं पट्टणं साहसानां दोषाणां सन्निधानं कपट-शत-मयं क्षेत्रमप्रत्ययानाम् । स्वर्ग-द्वारस्य विघ्नो नरक-पुर-मुख सर्वमायाकरण्डं स्त्री-यन्त्रं केन सृष्टं विषममृतमयं प्राणि-लोकस्य पाशः ॥
Metre: स्रग्धरा
नो सत्येन मृगाङ्क एष वदनी-भूतो न चेन्दीवरद्वन्द्वं लोचनतां गत न कनकैरप्यङ्ग-यष्टिः कृता । किन्त्वेवं कविभिः प्रतारित-मनास्तत्त्वं विजानन्नपि त्वङ्-मांसास्थि-मयं वपुर्मृग-दृशां मन्दो जनः सेवते ॥
Metre: शार्दूलविक्रीडितम्
लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्ग-सिद्धस्तत्र भ्रम्त्येव वृथा षड्-अङ्घ्रिः ॥
संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति ।एताः प्रविश्य सदयं हृदयं नराणां किं नाम वाम-नयना न समाचरन्ति ॥
Metre: वसन्ततिलका
यदेतत्पूर्णेन्दु-द्युति-हरमुदाराकृति परं मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधर-मधु ।इदं तत्किं पाक-द्रुम-फलमिदानीमतिरसव्यतीतेऽस्मिन्काले विषमिव भविष्य्त्यसुखदम् ॥
Metre: शिखरिणी
उन्मीलत्-त्रिवली-तरङ्ग-निलया प्रोत्तुङ्ग-पीन-स्तनद्वन्द्वेनोद्गत- चक्रवाक-युगला वक्त्राम्बुजोद्भासिनी । कान्ताकार-धरा नदीयमभितः क्रूरात्र नापेक्षते संसारार्णव-मज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥
Metre: शार्दूलविक्रीडितम्