उचितस्वपनोऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदीनीम् । भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अथसूर्यरुचीव तस्य दृष्टावुद्भूत्कौस्तुभदर्पणं गतायाम् । पटुः धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ॥
महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुंमुखेषु । व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢषे भानुमतः पुनः प्रसर्तुम् । तमसोऽभिभवादपास्य मूर्च्छामुपजीवत्सहसैव जीवलोकः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः । ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथप्रकाशे । रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः । अभवन्युगपद्विलोलजिह्वायुगलीढोभयसृक्कभागमाविः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन । अमृताग्रभुवः पुरेव पुच्छं बडवाभर्तुरवारि काद्रवेयैः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
दधतस्तनिमानमानपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः । भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् । उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४