इतरेतरत्सन्निकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः । पटलानि लिहन्वलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः ॥
शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले । विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः । ददृशेऽथ च तस्य चापयष्ट्यामिषुरेकैव जनै सकृद्विसृष्टा ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता । शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलभासः । विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ॥
शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः । परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
विहिताद्भुतलोकसृष्टिमाये जममिच्छन्किल मायया मुरारौ । भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् । प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धकारः ॥
Metre: उपजातिः
गुरवोऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतत् । क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवन्निषण्णाः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
श्लथतां व्रजतस्तथा परेषामगद्धारणाशक्तिमुज्झतः स्वाम् । सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवामस्त्रमग्रपाणेः ॥