शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 1551 to 1560 of 1644 verses
Verse 106
दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः । दूरादरौद्राददरद्रोदोरुद्दारुरादरी ॥
Metre: अनुष्टुप्

Verse 107
एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव । स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥
Metre: अनुष्टुप्

Verse 108
शूरः शौरिरशिशिरैराशाशैराशु राशिशः । शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥
Metre: अनुष्टुप्

Verse 109
व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः । मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ॥
Metre: अनुष्टुप्

Verse 110
नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् । अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः ॥
Metre: अनुष्टुप्

Verse 111
आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः । ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनम् ॥
Metre: अनुष्टुप्

Verse 112
भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः । कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥
Metre: अनुष्टुप्

Verse 113
मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् । शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥
Metre: अनुष्टुप्

Verse 114
दाददो दद्ददुद्दादी दादादो दूददीददोः । दुद्दादं दददे दुद्दे ददाददददोऽददः ॥
Metre: अनुष्टुप्

Verse 115
प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः । प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ॥
Metre: अनुष्टुप्

Showing 1551 to 1560 of 1644 verses