विभावी विभवी भाभो विभाभावी विवो विभीः । भवाभिभावी भावावो भवाभावो भुवो विभुः ॥
Metre: अनुष्टुप्
उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः । देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥
Metre: अनुष्टुप्
तं श्रिया घनयानस्तरुचा सारतया तया । यातया तरसा चारुस्तनयानघया श्रितम् ॥
Metre: अनुष्टुप्
विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः । अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥
Metre: अनुष्टुप्
विदितं दिवि केऽनीके तं यातं निजिताजिनि । विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥
Metre: अनुष्टुप्
नियुज्यमानेन पुरः कर्मण्यतिगरीयसि । आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमत् ॥
Metre: अनुष्टुप्
तत्र बाणाः सुपरुषः समधीयन्त चारवः । द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥
Metre: अनुष्टुप्
पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् । योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥
Metre: अनुष्टुप्
प्रपे रूपी पुरारेपाः परिपूरी परः परैः । रोपैरपारैरुपरि पुपूरेऽपि पुरोऽपरैः ॥
Metre: अनुष्टुप्
दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः । चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥
Metre: अनुष्टुप्