रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1421 to 1430 of 1569 verses
Verse 43
वयोरूपविभूतीनामेकैकं मदकारणम् । तानि तस्मिन्समस्तानि न तस्योत्सिषिचे मनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वय इति॥ वयोरूपविभूतीनां यौवनसौन्दर्यैश्वर्याणां मध्य एकैकं मदकारणं मदहेतुः। तानि मदकारणानि तस्मिन्राज्ञि समस्तानि। मिलितानीति शेषः। तथापि तस्यातिथेर्मनो नोत्सिषिचे न जगर्व। सिञ्चतेः स्वरितेत्त्वादात्मनेपदम्। अत्र वयोरूपादीनां गर्वहेतुत्वान्मदस्य च मदिराकार्यत्वेनातत्कारकत्वात् `मद`शब्देन गर्वो लक्ष्यत इत्याहुः। उक्तं च-`ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि। इष्टलाभादिना ह्येषामवज्ञा गर्व ईरितः। मदस्त्वानन्दसंमोहः संभेदो मदिराकृतः ॥` इति॥ अत एव कविनापि `उत्सिषिचे` इत्युक्तम्, नतु `उन्ममाद` इति ॥

Verse 44
इत्थं जनितरागासु प्रकृतिष्वनुवासरम् । अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ इत्थमनुवासरमन्वहं प्रकृतिषु प्रजासु जनितरागासुसतीषु स राजा नवोऽपि। दृढमूलो द्रुम इव। अक्षोभ्योऽप्रधृष्य आसीत् ॥

Verse 45
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः । अतः सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अनित्या इति॥ यतो बाह्याः शत्रवः प्रतिनृपा अनित्याः। द्विषन्ति स्निह्यन्ति चेत्यर्थः। किंच, ते बाह्या विप्रकृष्टा दूरस्थाश्च। अतः सोऽभ्यन्तरानन्तर्वर्तिनो नित्याञ्षड्रिपून्कामक्रोधादीन्। पूर्वमजयत्। अन्तःशत्रुजये बाह्या अपि न दुर्जया इति भावः ॥

Verse 46
प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः । निकषे हेमरेखेव श्रीरासीदनपायिनी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रसादेति॥ स्वभावतश्चपला चञ्चलापि श्रीः प्रसादाभिमुखे तस्मिन्नृपे। निकषे निकषोपले हेमरेखेव अनपायिनी स्थिराऽऽसीत् ॥

Verse 47
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कातर्यमिति॥ केवला शौर्यवर्जिता नीतिः कातर्यं भीरुत्वम्। शौर्यं `केवलम्` इत्यनुषञ्जनीयम्। केवलं नीतिरहितं शौर्यं श्वापदचेष्टितम्। व्याघ्रादिचेष्टाप्रायमित्यर्थः। `व्याघ्रादयो वनचराः पशवः श्वापदा मताः` इति हलायुधः। अतो हेतोः सोऽतिथिः समेताभ्यां संगताभ्यामुभाभ्यां नीति-शौर्याभ्यां सिद्धिं जयप्राप्तिम्। अन्वियेष गवेषितवान् ॥

Verse 48
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः । अदृष्टमभवत्किंचिद्व्यभ्रस्येव विवस्वतः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): न तस्येति॥ न्यस्ताः सर्वतः प्रहिताः प्रणिधयश्चरा एव दीधितयो रश्मयो यस्य तस्य। `प्रणिधिः प्रार्थने चरे` इति शाश्वतः। तस्य राज्ञः। व्यभ्रस्य निर्मेधस्य विवस्वतः सूर्यस्येव। मण्डले स्वविषये किंचिदल्पमष्यदृष्टमज्ञातं नाभवन्नासीत्। स चारचक्षुषा सर्वमपश्यदित्यर्थः ॥

Verse 49
रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् ष। तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रात्रिंदिवेति॥ रात्रौ च दिवा च रात्रिंदिवम्। `अचतुर-` (पा.5।4।77) इत्यादिनाधिकरणार्थे द्वन्द्वेऽच्प्रत्ययान्तो निपातः। अव्ययान्तत्वादव्ययत्वम्। अत्र षष्ठ्यर्थलक्षणया रात्रिंदिवमिति। अहोरात्रयोरित्यर्थः। तयोर्विभागा अंशाः। प्रहरादयस्तेषु। महीक्षितां राज्ञां यदादिष्टम् `इदमस्मिन्काले कर्तव्यम्` इति मन्वादिभिरुपदिष्टं तत्स राजा विकल्पपराङ्मुखः संशयरहितः सन्। नियोगेन निश्चयेन सिषेवे। अनुषअठितवानित्यर्थः। अत्र कौटिल्यः-`कार्याणां नियोगविकल्पसमुञ्चया भवन्ति, -अनेनैवोपायेन नान्येनेति नियोगः। अनेन वान्येन वेति विकल्पः। अनेन चेति समुञ्चयः` इति ॥

Verse 50
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः । स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मन्त्र इति॥ तस्य राज्ञः प्रतिदिनं मन्त्रिभिः सह मन्त्रो विचारो बभूव। स मन्त्रः सेव्यमानोऽप्यन्वहमावर्त्यमानोऽपि जातु कदाचिदपि न सूच्यते न प्रकाश्यते। तत्र हेतुः-गुप्तद्वार इति। संवृतेङ्गिताकारादिज्ञानमार्ग इत्यर्थः ॥

Verse 51
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः । सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): परेष्विति॥ यथाकालमुक्तकालानतिक्रमेण स्वपन्नपि सोऽतिथिः परेषु शत्रुषु स्वेषु स्वकीयेषु च। मन्त्र्यादितीर्थेष्विति शेषः। क्षिप्तैः प्रहितैरविज्ञाताः परस्परे येषां तैः। अन्योन्याविज्ञातैरित्यर्थः। अपसर्पैश्चरैः। `अपसर्पश्चरः स्पशः` इत्यमरः (अ.को.2|8|13)। जजागार बुद्धवान्। चारमुखेन सर्वदा सर्वमज्ञासीदित्यर्थः। अत्र कामन्दकः-`चारन्विचारयेत्तीर्थेष्वात्मनश्च परस्य च। पाषण्ड्यादीनविज्ञातानन्योन्यमितरैरपि ॥` इति ॥

Verse 52
दुर्गाणि दुर्ग्राहाण्यासंस्तस्य रोद्धुरपि द्विषाम् । न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दुर्गाणीति॥ द्विषां रोद्धू रोधकस्यापि, न तु स्वयं रोध्यस्येत्यर्थथः। तस्य राज्ञो दुर्ग्रहाणि परैर्दुर्धर्षाणि दुर्गाणि महीदुर्गदीन्यासन्। न च निर्भीकस्य किं दुर्गैरिति वाच्यमित्यर्थान्तरन्यासमुखेनाह-न हीति॥ गजानास्कन्दति हिनस्तीति गजास्कन्दि सिंहो भयाद्धेतोः। गिरिगुहासु शेत इति गिरिगुहाशयो न हि, किंतु स्वभाव एवेति शेषः `अधिकरणे शेतेः` (पा.3।2।15) इत्यच्प्रत्ययः। अत्र मनुः (7।70)-`धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥` इति ॥

Showing 1421 to 1430 of 1569 verses