शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Disable Parallel


Showing 121 to 130 of 324 verses
Verse 12
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने अन्तर्-वक्त्रमपि स्वभाव-शुचि-भीः कीर्णं द्विजानां गणैः । मुक्तानां सतताधिवास-रुचिरौ वक्षोज-कुम्भाविमावित्थं तन्वि वपुः प्रशान्तमपि तेरागं करोत्येव नः ॥
Metre: शार्दूलविक्रीडितम्

Verse 13
मुग्धे धानुष्कता केयमपूर्वा त्वयि दृश्यते । यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥
Metre: अनुष्टुप्

Verse 14
सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु । विना मे मृग-शावाक्ष्या तमो-भूतमिदं जगत् ॥
Metre: अनुष्टुप्

Verse 15
उद्वृत्तः स्तन-भार एष तरले नेत्रे चले भ्रू-लते रागाधिष्ठितमोष्ठ-पल्लवमिदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षर-मालिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावलिः केन सा ॥
Metre: शार्दूलविक्रीडितम्

Verse 16
मुखेन चन्द्र-कान्तेन महानीलैः शिरोरुहैः । कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥
Metre: अनुष्टुप्

Verse 17
गुरुणा स्तन-भारेण मुख-चन्द्रेण भास्वता । शनैश्-चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥
Metre: अनुष्टुप्

Verse 18
तस्याः स्तनौ यदि घनौ जघनं च हारि वक्त्रं च चारु तव चित्त किमाकुलत्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥
Metre: वसन्ततिलका

Verse 19
इमे तारुण्य-श्री-नव-परिमलाः प्रौढ-सुरतप्रताप- प्रारम्भाः स्मर-विजय-दान-प्रतिभुवः । चिरं चेतश्चोरा अभिनव-विकारैक-गुरवो विलास-व्यापाराः किमपि विजयन्ते मृग-दृशाम् ॥
Metre: शिखरिणी

Verse 20
प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः । प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥
Metre: हरिणी

Verse 21
विश्रम्य विश्रम्य वन-द्रुमाणां छायासु तन्वी विचचार काचित् । स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥
Metre: उपजातिः

Showing 121 to 130 of 324 verses