अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Disable Parallel


Showing 1251 to 1260 of 1285 verses
भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् ।अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः ।

उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु संपदः ॥
Metre: वंशस्थम्

एवं विधातारः प्रसीदन्ति ।

भगवन्निमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वा तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।

यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् । पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥
Metre: उपजातिः

वत्स अलमात्मापराधशङ्का । संमोहोऽपि त्वय्यनुपपन्नः । श्रूयताम् ।

अवहितोऽस्मि ।

यदा एवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदा एव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः ।

(सोच्छ्वासम्)एष वचनीयान्मुक्तोऽस्मि ।

(स्वगतम्) दिष्ट्याकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तमात्मानं स्मरामि ।अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः ।अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति ।