(उपगम्योभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति ।
वत्स चिरं जीव । पृथिवीं पालय ।
दारकसहिता वां पादवदनं करोमि ।
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥
Metre: अनुष्टुप्
जाते भर्तुर्बहुमता भव ।अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु ।उपविशत । (सर्वे प्रजापतिमभित उपविशन्ति)
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् । श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥
Metre: अनुष्टुप्