विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशासीदात्मनो भागधेयेषु ।
अथ वा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् ।
(शकुन्तलां विलोक्य)अये सेयमत्रभवती शकुन्तला यैषा
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥
Metre: औपच्छन्दसिक
(पश्चात्तापविवर्णं राजानं दृष्ट्वा) न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ।
(मातरमुपेत्य) मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति ।
प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
(आत्मगतम्) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन ।आर्यपुत्रः खल्वेषः ।
स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि ।उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥
Metre: उद्गीति