वत्स अस्य वृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
(आत्मगतम्) किं वा शकुन्तला इत्यस्या मातुराख्या । सन्ति पुनर्नामधेयसादृश्यानि ।अपि नाम मृगतृष्टिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते ।
मातः रोचते म एष भद्रमयूरः । (इति क्रीडनकमादत्ते)
(विलोक्य । स उद्वेगम्)अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते ।
अलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् । (इत्यादातुमिच्छति)
उभे मा खल्वेतदवलम्ब्य कथम् । गृहीतमनेन ।
(इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)
किमर्थं प्रतिषिद्धाः स्मः ।
शृणोतु महाराजः ।एषापराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता ।
एतां किल मातापितरावात्मानं च वर्जयित्वापरो भूमिपतितां न गृह्णाति ।