न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया । हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामाम् ॥
Metre: प्रमिताक्षरा
इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् । स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः ॥
Metre: प्रमिताक्षरा
अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या । कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या । तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥
Metre: प्रहर्षिणी
सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा । कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ॥
दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् । बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥
Metre: वंशस्थम्
इत्थं नारीर्घटयितुमलं कामिभिः काममासन्प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः । आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥
Metre: मन्दाक्रान्ता