वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा । रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥
Metre: तोटकम्
मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे । अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ॥
कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि । गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥
Metre: कलहंस
अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे । योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ॥
Metre: उपजातिः
स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन । परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
जातप्रीतिर्या मधुरेणानुवनान्तं कामे कान्ते सारसिकाकुरुतेन । तत्सम्पर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ॥
Metre: मत्तमयूरम्
कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोपितेन । प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोपितेन ॥
Metre: वसन्ततिलका
गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया । मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥
Metre: द्रुतविलम्बितम्
कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैविराममलिनां च न गानवाचः । श्रीमान्समस्तमनुसानु गिरौविहर्तु बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥
Metre: वसन्ततिलका