भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 751 to 756 of 756 verses
स हि प्रायः प्रबन्धेषु तत्र तत्रोपयुज्यते॥ १२६॥

क्रियायां कालोऽन्तर्भवति पुरुषः कारकपदे प्रधाने सोपाधिद्वयमपि तदेतन्निविशते।

प्रधानं तं प्राहुर्यमभिदधते घञ्प्रभृतयः सहोपस्कारार्थोर्निविशति स तु प्रातिपदिके॥ १२७॥

इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे क्रियाद्यर्थचतुष्टयप्रकाशो नाम ॥ चतुर्थः प्रकाशः॥ ४॥

रेवाप्रसादस्य सनातनस्य प्रकाशसंशोधनकार्यमेतत्।

प्रकाशमेतं तु तुरीयमाप्‍तं प्रसीदतादत्र महान् स देवः॥

Showing 751 to 756 of 756 verses