स्नेहवृत्तिरेवं दर्शिनी । (सविमर्शं परिक्रम्य) हन्त भोः शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः ।
अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः । जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥
Metre: इन्द्रवज्रा
(इति निष्क्रान्ताः सर्वे)