शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 61 to 68 of 68 verses
Verse 61
त्वक्साररन्ध्रपरिपूरणलब्धगीतिरस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः । कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः ॥
Metre: वसन्ततिलका

Verse 62
प्रीत्यै यूनां व्यवहिततपनाः प्रौढद्वान्तं दिनमिह जलदाः । दोषामन्यं विदधाति सुरतक्रीडायासश्रमपटवः ॥

Verse 63
भग्ने निवासोऽयमिहास्य पुष्पैः सदानतः येन विषाणि नागः । तीव्राणि तेनोज्झति कोपितोऽसौ ससानतोयेन विषाणि नागः ॥
Metre: उपजातिः

Verse 64
प्रालेयशीतलमचलेश्वरमीश्वरोऽपि सान्द्रभचर्मवसनावरणाधिशेते । सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥

Verse 65
नवनगवनलेखाश्यामध्याभिराभिः स्फटिककटकभूमिनाटयत्येष शैलः । अहिपरिकरभाजो भास्मनैरङ्गरागैरधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥
Metre: मालिनी

Verse 66
दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर्विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः । निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥
Metre: पृथ्वी

Verse 67
दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः । व्रीडमसंंमुखोऽपि रमणैरपहृतवसनाः खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥
Metre: वंशपत्रपतितम्

Verse 68
अनुकृतिशिखरौघश्रीभिरभ्यगतेऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः । द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ॥
Metre: मालिनी

Showing 61 to 68 of 68 verses