क्रियात्मनोऽमी कालस्य भेदाद् विस्रम्भणादयः।
विस्रम्भणादिसम्भोगभेदावच्छेदहेतवः ॥ २१०॥
चतुष्षष्टिरतोऽत्रैव केचिद् विस्रम्भणादयः।
मानाद्यनन्तरेऽपि स्युः केचिच्चन्द्रोदयादयः॥ २११॥
सम्भोग उक्तः प्रथमानुरागादनन्तरस्सोऽयमनेकभेदः।
मानात् प्रवासात् करुणाच्च सम्प्रत्यनन्तराः किञ्चिदुदाह्रियन्ते॥ २१२॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे प्रथमानुरागप्रकाशो नाम ॥ चतुस्त्रिंशः प्रकाशः॥ ३४॥
अयतिष्ट सनातनः प्रकाशे यदयं निर्व्यवधानमेव काश्याम्।
फलमेतदुदीतिमाप नूनं प्रथमः कल्पतरुस्तपो हि भूमौ॥