भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 771 to 779 of 779 verses
क्रियात्मनोऽमी कालस्य भेदाद् विस्रम्भणादयः।

विस्रम्भणादिसम्भोगभेदावच्छेदहेतवः ॥ २१०॥

चतुष्षष्टिरतोऽत्रैव केचिद् विस्रम्भणादयः।

मानाद्यनन्तरेऽपि स्युः केचिच्‍चन्द्रोदयादयः॥ २११॥

सम्भोग उक्तः प्रथमानुरागादनन्तरस्सोऽयमनेकभेदः।

मानात् प्रवासात् करुणाच्‍च सम्प्रत्यनन्तराः किञ्चिदुदाह्रियन्ते॥ २१२॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे प्रथमानुरागप्रकाशो नाम ॥ चतुस्त्रिंशः प्रकाशः॥ ३४॥

अयतिष्ट सनातनः प्रकाशे यदयं निर्व्यवधानमेव काश्‍याम्।

फलमेतदुदीतिमाप नूनं प्रथमः कल्पतरुस्तपो हि भूमौ॥

Showing 771 to 779 of 779 verses