मानोपशमचिह्नानि मानापगमहेतवः॥ ४११॥
उपाधिभङ्गा मानस्य मानभङ्गस्य भक्तयः ।
मानभङ्गोपधानानि मानानुभवसम्मताः॥ ४१२॥
उक्ताः संक्षेपतः प्राज्ञैरनुक्तमनुमीयताम्।
मनुष्यवचसा केऽस्य प्रकारान् वक्तुमीशते॥
क्षमन्ते मातुमम्भोधेरापः केऽञ्जलिना जनाः॥ ४१३॥
परश्शतविकल्पवानिति स एष मानस्रिधा मयैणनयनामनः—परमबान्धवो वर्णितः।
अथाध्वगविलासिनीमुखसरोजसन्ध्यातमः— प्रवास उपवर्ण्यते रतिसमुद्रचन्द्रोदयः॥ ४१४॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे मानप्रकाशो नाम
॥ त्रिंशः प्रकाशः समाप्तः॥ ३०॥