रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 70 verses
Verse 61
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): रघुरिति॥ रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि ताडितो हतः सन् । सैनिकानामश्रुभिः सह भूमौ पपात। तस्मिन्पतिते ते रुरुदुरित्यर्थः। निमेषमात्राद्व्यथां दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण ये निस्वनाः क्ष्वेडास्तैः सहोत्थितश्च। तस्मिन्नुत्थिते हर्षात्सिंहनादांश्चक्रुरित्यर्थः॥

Verse 62
तथापि शस्त्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः । तुतोष वीर्यातिशयेन वृत्रघहा पदं हि सर्वत्र गुणैर्निधीयते ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तथापीति॥ तथापि वज्रघातेऽपि शस्त्त्राणामायुधानां व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन। वृत्रं हतवानिति वृत्रहा। `ब्रह्मभ्रूणवृत्रेषु क्विप्`। (पा.3।2।87) तुतोष। स्वयं वीर एव वीरं जानातीति भावः। कथं शत्रोः संतोषोऽत आह-गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्ग्रिर्निधीयते। गुणैः सर्वत्र संक्रम्यत इत्यर्थः। गुणाः शत्रूनप्यावर्जयन्तीति भावः ॥

Verse 63
असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् । अवेहि मां प्रीतमृते तुरंगमात्किमिच्छसीति स्फुटमाह वासवः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): असङ्गमिति॥ सारवत्तयाऽद्रिष्वसङ्गमप्रतिबन्धं मे आयुधं वज्रं त्वदन्येन न विसोढम्। अतो मां प्रीतं संतुष्टमवेहि। तुरंगमादृते दुरंगं वर्जयित्वा। `अन्यारादितरर्ते-` (पा.2।3।29) इति पञ्चमी। किमिच्छसीति स्फुटं वासव आह। तुरंगमादन्यददेयं नास्तीति भावः॥

Verse 64
ततो निषङ्गादमसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् । नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो निषङ्गात्तूणीरादसमग्रं यथा तथोद्धृतं सुवर्णपुङ्खद्युतिभी रञ्जिता अङ्गुलयो येन तमिषुं प्रतिसंहरन्निवर्तयन्। `नाप्रहरन्तं प्रहरेत्` इति निषेधादिति भावः। प्रियं वदतीति प्रियंवदः। `प्रियवशे वदः खच्` (पा.3।2।38) इति खच्प्रत्ययः। `अरुर्द्विषट्-` (पा.6।3।67) इत्यादिना मुमागमः। नरेन्द्रसूनू रघुः सुरेश्वरं प्रत्यवदत्। न तु प्राहरदिति भावः॥

Verse 65
अमोच्यमश्वं यदि मन्यसे प्रभो! ततः समाप्ते विधिनैव कर्मणि । अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अमोच्यमिति॥ हे प्रभो इन्द्र! अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां प्रयतः स मद्गुरुर्मम पिता विधिनैव कर्मणि समाप्ते सति क्रतोर्यत्फलं तेन फलेनाशेषेण कृत्स्नेन युज्यतां युक्तोऽस्तु । अश्वमेधफललाभे किमश्वेनेति भावः॥

Verse 66
यथा च वृत्तान्तमिमं सदोगतस्त्त्रिलोचनैकांशतया दुरासदः । तवैव संदेशहराद्विशांपतिः श्रृणोति लोकेश! तथाविधीयताम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): यथेति॥ सदोगतः सदो गृहं गतस्त्त्रिलोचनस्येश्वरस्यैकांशतया, अष्टानामन्यतममूर्तित्वात्। दुरासदो मादृशैर्दुष्प्राप्यो विशांपतिर्यथेमं वृत्तान्तं तव संदेशहराद्वार्ताहरादेव शृणोति च। हे लोकेशेन्द्र! तथा विधीयताम्॥

Verse 67
तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ । नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ मातलिसारथिरिन्द्रो रघोः संबन्धिनं कामं मनोरथं तथेति `तथास्तु` इति प्रतिशुश्रुवान्। `भाषायां सदवसश्रुवः` (पा.3।2।108) इति क्वसुप्रत्ययः। तथागतं ययौ सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाशान्नातीव तुष्टः सन्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। नृपस्य सदोगृहं प्रति न्यवर्तत ॥

Verse 68
तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । परामृशन्हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो ज्ञापितः। वृत्तान्तमिति शेषः। प्रजेश्वरो दिलीपो हर्षजडेन हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम्। तस्य रघोरिदं तदीयम्। अङ्गं शरीरं परामृशन्, तं रघुमभ्यनन्दत् ॥

Verse 69
इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ महनीयशासनः पूजनीयाज्ञः क्षितीश इत्यनेन प्रकारेण। `इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु` इत्यमरः`। महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेकोनशतमायुषः क्षये सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परम्परां पङ्क्तिमिव ततान ॥

Verse 70
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥
Metre: हरिणी
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचितः स दिलीपो यथाविधि यथाशास्त्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम्। `ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि` इति विश्वः। सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान्। वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः। तथा हि-गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम्। तद्राजसंज्ञकत्वादणो लुक्। इदं वनगमनं कुलव्रतम्। `देव्या सह` इत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः। तथा च याज्ञवल्क्यः(प्राय.3।45)- `सुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम्। वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्॥` इति। हरिणीवृत्तमेतत्। तदुक्तम्-`रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा` इति॥

Showing 61 to 70 of 70 verses