तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियम् क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः । हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥
Metre: शार्दूलविक्रीडितम्
सायंतने सदनकर्मणि संप्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस्ताः । छायाश्चरन्ति बहुधा भयमादधानाः संध्यापयोदकपिशाः पिशिताशनानाम् ॥
Metre: वसन्ततिलका
अयमहमागच्छामि । (इति निष्क्रान्तः)