चीए बंधुस्स व अट्ठिआइँ रुइरी समुच्चिणइ॥ १६॥
(निष्पिष्टान्यसती दुःखालोकानि मधूकपुष्पाणि।
चितायां बन्धोरिवास्थीनि रोदनशीला समुच्चिनोति॥)
सङ्केतोपघ्नो यथा—(गास. ४.६५)
आअण्णेइ अडअणा कुडुंग—हेट्ठम्मि दिण्णसंकेआ।
अग्गपअपेल्लिआणं मम्मरअं जुण्णपत्ताणं॥ १७॥
(आकर्णयत्यसती कुञ्जाधो दत्तसङ्केता।
अग्रपदप्रेरितानां मर्मरकं जीर्णपत्राणाम्॥)
अण्णासंकाए तमंधआरवाअण्णपवणेण्णि।